2023-04-07 05:36:09 by ambuda-bot
This page has not been fully proofread.
रहस्यरक्षाव्याख्योपेतम्
95
प्रीतिकारित-अशेषावस्थोचिताशेषशेषतैकरतिरूप-
नित्यकिङ्करो भवानि ! ॥ १ ॥
-
[स्वगताकिञ्चन्य अनन्यगतित्वचिन्तनपूर्वकं भगवञ्चरणारविन्दशरणागतिः]
स्वात्म- नित्यनियाम्य - नित्यदास्यैकरसात्मस्वभावानुसन्धानपूर्वक-
भगवदनवधिकातिशय-स्वाम्याद्यखिलगुणगणानुभवजनित-
अनवधिकातिशय - प्रीतिकारिता अशेषावस्थोचिताशेष- शेषतैकरतिरूप-
}
र.र. - ईश्वरेच्छाधीनेऽपि कैङ्कर्ये स्वप्रीतिकारितत्वोक्तिः; नियोगनैरपेक्ष्यम्, प्रीतेः प्रेरकत्वातिशयं
च व्यनक्ति । कारितशब्द इह शेषतायां वा तदेकरतौ वा शेषवृत्तं प्रति प्रयोज्यकर्तरि
किङ्करे वा अन्वेतव्यः । अशेषावस्थाशब्देन सेव्यस्य भगवतः परत्वव्यूहत्वादयः,
सेवकस्य च मुक्तस्य सदेहत्वविदेहत्वादिरूपा अवस्थाः सर्वा विवक्षिताः । शेषता अत्र
शेषवृत्तिः । अभिमतसर्वशेषवृत्तिषु अभिघातमभिप्रेत्य अशेषशब्दः । स्वामिप्रीत्यर्थत्वाविशेषेण
परस्परैकरस्यात् परकृताऽपि शेषवृत्तिः स्वकृतेव भवतीति भावः । ईश्वरस्य मुक्तस्य च
स्वच्छन्दानेकदेहपरिग्रहेण वा अनन्तगरुडादिवृत्तिसजातीयकैङ्कर्यसिद्धिः । आत्मा आत्मीयं वा
सर्वम् अशेषशब्देनोच्यते; तदा तस्य शेषता शेषभाव एव । एवं विधायाम् अशेषशेषतायाम्
एव रतिः - प्रीतिरिच्छा वा रूपम् - निरूपकधर्मो यस्य सः अशेषशेषतैकरतिरूपः ।
नित्यकिङ्करो भवानि - उत्तरावधिरहितकैङ्कर्यसाम्राज्यवान् भवेयमिति भावः ।
एवं न्यासोपासनसाधारणाधिकारसिद्ध्यै प्रथमं फलपर उत्तरखण्डो विवृतः ।
अथोपायपरं पूर्वखण्डं विवृण्वन् तत्रोत्तमपुरुषविवक्षितमाकिञ्चन्यरूपं प्रपत्तेर्विशेषाधिकारम्,
कार्पण्यरूपमङ्गं च व्यनक्ति - स्वात्मनित्यनियाम्य इति । स्वात्मशब्दोऽनुसन्धातृस्वरूपपरः ।
अत्र शेषशेषितत्कैङ्कर्यचिन्तनरसेन तदनुवृत्तिवाञ्छया च पूर्वोक्तस्यैव परमपुरुषार्थस्य
विस्तरेणानुवादः । नियाम्यशब्दोऽत्र भावप्रधानः । अनवधिकातिशयस्वाम्यम्
अनवच्छिन्नसर्वविषयस्वामित्वम् । आदिशब्देन तथाविधनियन्तृत्वादिसङ्ग्रहः ।
1
ऐश्वर्यादिफलान्तरात् कादाचित्कभगवत्कैङ्कर्याञ्च व्यावृत्यर्थं नित्यकैङ्कर्यशब्दौ ।
उपायभूत इति च्विप्रत्ययरहितप्रयोगेण मोक्षप्रदत्वं भगवद्भक्तेः स्वभावप्राप्तमिति व्यज्यते ।