This page has been fully proofread once and needs a second look.

प्रबुद्ध-1
 
- नित्यनियाम्य- नित्य-
नित्यनियाम्य-नित्य-दास्यैक - -रसात्म-स्वभावोऽहम्,

तदेकानुभव: ; तदेकप्रियः; परिपूर्ण - णं-भगवन्तम् ;

विशदतमानुभवेन निरन्तरमनुभूय; तदनुभवजनितानवधिकातिशय-
94
 

र.र. - अथात्माभिमानानुगुणपुरुषार्थव्यवस्थासिद्ध्यर्थमनुभवितुः किङ्करस्य स्वात्मनः
स्वरूपाविर्भावदशामाह - प्रबुद्ध इति । प्रबुद्धम् प्रकर्षेणावगतम्, स्वाधीनस्वार्थकर्तृत्व-
भ्रमविरहेण सम्यग्दृष्टमित्यर्थः । नियाम्यत्वदासत्वे 'स स्वराड् भवति' (छां.उ.७-२५-२)
इत्याम्नातायां मुक्तिदशायामप्यनुवृत्ते इति ज्ञापनाय द्वयोरपि नित्यत्वोक्तिः ।
निरपेक्षस्वातन्त्र्यनिरुपाधिकशेषित्वप्रसङ्ग परिहाराय एकरसशब्दः । अत्र आत्मशब्दः
स्वविषयः । स्वभावशब्दो यावदात्मभाव्याकारमाह । ईदृशात्मस्वरूपमपि
'व्यतिरेकस्तद्भाव- भावित्वात्' (ब्र. सू. ३-३-५४) इति नयेन परमप्राप्यविशेषणतया
फलकोटि निविष्टमनुसन्धेयमिति व्यञ्जयितुम् अधिको अहंशब्दः ।
 
-
 
श्रीरङ्गगद्यम्
 

नित्यनियाम्यत्वप्रबोधकाष्ठामाह तदेकानुभव इति । तस्मिन्नेकस्मिन्नेव प्रधानतया
अनुभवो यस्य स तथोक्तः । आविर्भूतस्वरूपस्य हि भगवद- पृथक्सिद्धविशेषणतया तत्प्रधानतयैव
स्वानुभवं 'अविभागेन दृष्टत्वात्' (ब्र.सू.४-४-४) इत्यसूत्रयत् । नित्यदास्यैकरसत्वाविर्भावस्य
फलमाह - तदेकप्रिय इति । स एव प्रधानतया नित्यं प्रियो यस्य स तदेकप्रियः । न
हि तद्दास्यैकरसस्यास्य 'रसो वै सः' (तै. उ. आन. ७) इत्याद्युक्तस्वाभाविक निरवधिकातिशय-
रसस्वरूपात् तस्मादन्यत् तदानीं प्रधानतया आस्वाद्यं भवति । तदेवमनुभाव्यानुभवितारावुक्तौ ।
 
-
 
-
 
-
 

अथात्रत्यानुभवाद्व्यावृत्तमनुभवप्रकारमाह परिपूर्णम् इति । अनन्तगुण विभूति-
विशिष्टस्वरूपे अननुभूतांशरहितमित्यर्थः । भगवन्तम्- पराशरादि निरुक्तप्रकारेणोभयलिङ्गम् ।
तस्मिन् सामान्यतः सर्वाकारविषयपरोक्ष ज्ञानात् परिमिताकारविषयप्रत्यक्षज्ञानाच्च
व्यावृत्त्यर्थमाह विशदतमानुभवेन इति । तत्राप्यपरिच्छिन्नविषयसान्तरप्रत्यक्षाद्व्यवच्छिनत्ति
निरन्तरम् इति । अनुभवेन अनुभूय - अनुभवेन विषयीकृत्येत्यर्थः । तदनुभव इति ।
अनेन पूर्वोक्तभगवदनुभवानुवादः; यद्वा, तच्छब्देन भगवदनुभवः परामृश्यते; तस्य अनुभवो
अपि स्वयंप्रकाशस्य तस्यैव स्वरूपम्; ईदृशोऽयमनुभूयते मयेत्यनुकूलतमभगवदनुभवस्वरूपोल्लेखांशेन
जनिता प्रीतिः इहोच्यते । तस्या अनवधिकातिशयत्वेन ऐश्वर्याद्यनुभवजनितप्रीतेर्व्यवच्छेदः ।