This page has been fully proofread once and needs a second look.

रहस्यरक्षाव्याख्योपेतम्..
 
कृतज्ञताद्यसङ्ख्येय-कल्याण-गुणगणौघ-महार्णवम्;

परब्रह्मभूतम्, पुरुषोत्तमम्, श्रीरङ्गशायिनमस्मत्-स्वामिनम्,
XxxxxxxxwwRRRRR
 

र.र. - कृतज्ञता सकृदञ्जलिकर्तुरपि अनुबन्धिपर्यन्तसंरक्षणाय तत्कृतानु- दर्शनम्,
अवसरे संश्रितापेक्षितकरणाय स्वकृतप्रत्याख्यानानुदर्शित्वं वा; 'शिरसा याचतस्तस्य
वचनं न कृतं मया' (रा.यु. २४-२१) इति ह्याह । आदि शब्देन तत्र तत्र प्रसिद्धा
आनृशंस्यादयो गृह्यन्ते । 'यथा रत्नानि जलधेर- सङ्ख्येयानि पुत्रक !' (वाम.पु.७४-४०)
इत्यादिस्मारणाय असङ्ख्येय- त्वोक्तिः । अत्र दोषासंस्पृष्टत्वं कल्याणगुणयुक्तत्वं च
वदता निर्गुणश्रुतेः पशुच्छागोत्सर्गापवादनयाभ्यां दोषरूपविशेषनिषेधपरत्वं सूच्यते ।
 
-
 
93
 

 

परब्रह्मेत्यादि - उक्तं सर्वस्मात् परत्वं स्वसाम्यप्रदानपर्यन्तं सौलभ्यं च

'नारायणः परं ब्रह्म' (महाना.उ.११-२५) 'परं ब्रह्म परं धाम' (भ.गी. १०-१२) इत्यादिश्रुतिस्मृति-
सिद्धप्रकारेण स्थिरीकरोति - परब्रह्म इति । यद्यपि 'ब्रह्म परिबृढं सर्वतः (निरुक्तम्.१-३)
इति निरुक्तकारवचनात् ब्रह्मशब्द एव परत्वं वदन् नाम च भवति, तथाऽप्यौपचारिक-
प्रयोगव्यवच्छेदाय परशब्दः
 
-
 
अत्र 'बृहति बृंहयति' (अ.शि. २) इति निरुक्तिभ्यां व्यापित्वकारणत्वादि- सिद्ध्या
शङ्कितान् दोषान् परिहर्तुं भेदश्रुत्याद्यर्थगर्भया भगवद्गीता (भ.गी. १५-१८) निरुक्तया..
समाख्यया विशिनष्टि - पुरुषोत्तमम् इति । अनेन ब्रह्मशब्दार्थतया कुदृष्टिविकल्पित-
प्रकारान्तराणि, तामसतन्त्राद्युक्त- व्यक्त्यन्तराणि च व्यवच्छिद्यन्ते । अस्य च
पञ्चम्यादिविभक्तित्रयेऽपि समासः संभवति ।
 

एवं सर्वाधिकत्वेन अस्मदादिभिर्दुरधिगमः स्यादिति शङ्कां परिहरन्, द्वाभ्यां

विशेषणाभ्यां सौलभ्यकाष्ठां व्यक्तिनक्ति - श्रीरङ्गशायिनम् अस्मत्स्वामिनम् इति । स्वरूपाद्विग्रहस्य
सुखानुसन्धेयतया सौलभ्यमधिकम्; तस्मादप्यर्चा- वतारस्य भक्ताभिमतसर्वदेशकाल-
संनिधायितया परव्यूहादिभ्योऽधिकत- मम् । तदा काष्ठाप्राप्तं परत्वमपि तत्र भक्तोपलभ्यं
शास्त्रादवसेयम्; यथोक्तम्- 'सर्वातिशायि षाड्गुण्यं संस्थितं मन्त्रबिम्बयोः' (वि.सं.) इति ।

अत्र मनुष्याणामपि कैङ्कर्योद्देश्यतया अवस्थितस्य निर्भयसेवादियोग्यत्वम् अस्मत्स्वामिशब्दाभि-
प्रेतम् । यथाऽऽहुः - 'अर्च्यः सर्वसहिष्णुरर्चकपराधी-नाखिलात्मस्थितिः' (श्रीरं.स्त.२-७४)
इति । यद्वा स्वाचार्यसन्तानसेवितत्वेन प्रीत्यतिशयहेतुत्वमभिप्रेत्य अस्मत्स्वामिशब्दः ।
प्राचीनरामानुज इव 'अहमप्यस्य शीलादिगुणैर्दास्यमुपागतः' (रा. कि. ४-१२) इति च भावः । एवं
कैङ्कर्यप्रतिसम्बन्धितया अनुभाव्यं निर्धारितम् ।