This page has been fully proofread once and needs a second look.

92
 
सौशील्य-वात्सल्य-मार्दवार्जव - -सौहार्द - -साम्य-कारुण्य-
माधुर्य - -गाम्भीर्य- औदार्य- चातुर्य-स्थैर्य-धैर्य-शौर्य-पराक्रम-
सत्यकाम-
सत्यसङ्कल्प -कृतित्व-
-
 
1
 

र.र. - तेजः - अस्वाधीनसहकारिनिरपेक्षत्वम्; पराभिभवनसामर्थ्यं वा । अत्र व्यूहव्यक्त्यादिक्रमेण
ज्ञानबलादिद्वन्द्वत्रिकनिर्देशः । षाड्गुण्यस्य प्रथममुपादानम्-अन्येषां गुणानां तदन्तर्भावन
तत्प्राधान्यात् परत्वज्ञापक- त्वात् आश्रितानाश्रितगोचरव्यापारभेदसाधारण्याच्च ।
 
श्रीरङ्गगद्यम् -
 
-
 

अथ षाड्गुण्यविततिरूपाः सौलभ्यज्ञापकाः संश्रितसङ्ग्रहणादौ विशेषत उपयुक्ता
गुणाः उच्यन्ते । अत्र सौशील्यम् - महतो मन्दैस्सह नीरन्ध्रसंश्लेष रसिकता । वात्सल्यम् .
- आश्रितेषु दोषतिरस्कारिणी प्रीतिः । मार्दवम् - अकठिनस्वभावतया सुप्रवेशत्वम्, दण्डनीयेष्वपि
सामप्रधानत्वं वा । आर्जवम् - कायवाग्बुद्धिव्यापाराणां परस्परमविसंवादित्वं । सौहार्दम्
-
स्वतः सर्वहितैषित्वम् । साम्यम् - सर्वैरप्याश्रयणीयत्वे समत्वम्, स्वतोऽपक्ष पातित्वम्
वा । कारुण्यम् - स्वप्रयोजनान्तरानुद्देशेन परदुःखनिराचिकीर्षा । माधुर्यम् - उपायदशायामपि
रञ्जकत्वेन रसावहत्वम्, द्विषतां जिघांसिताना मपि दृष्टिचित्तापहारित्वं वा । गाम्भीर्यम्
- भक्तानुग्रहादेरगाधत्वम्, आश्रित दोषदर्शनादेः सतोऽपि गोपनेन दुर्ग्रहत्वं वा । औदार्यम् -
पात्रलाघवदेय- गौरवप्रत्युपकाराद्यनादरेण वितरणशीलत्वम् । चातुर्यम् - शुभाश्रयप्रकाश नाद्य-
यत्नोपायैर्विमुखवशीकरण-विस्रम्भजनन-संश्रितदोषाच्छादन- विरुद्धा नुकूलीकरणादिषु
कुशलत्वम् । स्थैर्यम् - शरणागतसङ्ग्रहे दोषप्रदर्शकैः सुहृद्भिरप्यकम्पनीयत्वम् ।
धैर्यम् - अभिमतवियोगप्रसङ्गेऽप्यभग्नप्रति- ज्ञत्वम् । व्यत्ययेन वा स्थैर्यधैर्ययोर्व्याख्यानम् ।
प्रबलप्रतिपक्षोपनिपातेऽपि सावज्ञदृढचित्तत्वं वा धैर्यम् । शौर्यम् तु भीमेष्वपि परसैन्येषु
असहायस्यापि स्वसैन्येष्विव निर्भयप्रवेशसामर्थ्यम् । तत्र प्रविष्टस्य परनिराकरणपर्यन्तो
 

व्यापारः पराक्रमः ।
 
-
 
-
 
-
 

सत्यकामसत्यसङ्कल्पशब्दौ इह भावप्रधानौ, कर्मधारयवृत्तौ वा सत्य- कामत्वम् -
नित्यभोग्यवत्वम्; सत्यसङ्कल्पत्वम्
- स्वावतारपर्यन्तापूर्वभोग्य- सृष्ट्यादावमोघ-
सङ्कल्पत्वम् । कृतित्वम् - परोपकारकत्वम्, आश्रितरक्षणेन कृतकृत्यं वा, 'न मे
पार्थास्ति कर्तव्यम्' (भ.गी. ३-२२) इत्याद्युक्तं विहित कर्तव्यनिरपेक्षत्वं वा,
धर्मसंस्थापकानुष्ठानवत्वं वा, परेषां स्वहितप्रवृत्तेः
पूर्वमेव कर्तुमुपक्रान्तपरहितत्वं वा स्वेन
कृतं सर्वं प्रति स्वस्यैव शेषित्वं वा