This page has not been fully proofread.

90
 
[भगवद्दिव्यगुणानुसन्धानपूर्वकं तदनुगुणस्वभावाविर्भावतः स्वस्य भगवति
नित्यकैङ्कर्यलाभप्रार्थना]
 
स्वाधीन - त्रिविधचेतनाचेतन स्वरूप स्थिति प्रवृत्ति - भेदम्,
 
-
 
-
 
श्रीरङ्गगद्यम् -
 
र.र. - स्वाधीनेत्यादि - इह च प्रथमं सविभूतिकस्य भगवतः परमप्राप्यत्वादिसिद्ध्यर्थं
चतुर्थ्यन्तपदप्रदर्शितं सर्वेश्वरत्वादिकमाह - स्वाधीन इति । स्वशब्देन मुक्तप्राप्यस्य
कैङ्कर्योद्देशस्य सर्वेश्वरस्य श्रुत्यादिप्रसिद्धं निरतिशयानन्दत्वादिकं सूच्यते । स्वाधीनशब्देन
भगवत्स्वरूपाधीनत्वं, तदिच्छाधीनत्वं च विवक्षितम् । सर्वस्य साक्षात् परम्परया वा
तदाश्रिततया तत्स्वरूपाधीनत्वम् । तत्र नित्यानां पदार्थानां तदिच्छाधीनस्वरूपत्वं तदभावे
तेषामभावः प्रसजेदिति प्रसङ्गमुखेन स्थाप्यम् । तदभिप्रायेण हि आहुः -
 
'इच्छात एव तव विश्वपदार्थसत्ता
 
नित्यं प्रियास्तव तु केचन ते हि नित्याः ।
नित्यं त्वदेकपरतन्त्रनिजस्वरूपा
 
भावत्कमङ्गलगुणा हि निदर्शनं नः' ॥ (वै स्त. ३६) इति ।
अभाषि च शारीरकान्ते - 'परमपुरुषभोगोपकरणस्य लीलोपकरणस्य च नित्यतया
शास्त्रावगतस्य' 'परमपुरुषस्य नित्येष्टत्वादेव तथाऽवस्थानमस्तीति शास्त्रादवगम्यते'
(श्री. भा. ४-४-२०) इति । अनित्यानां तू तदिच्छाधीनस्वरूपत्वं तदायत्तोत्पत्तिकतया हि
प्रसिद्धम् । गुरुद्रव्याणां पतनप्रतिबन्धेन धार्यत्वमपि तदिच्छाधीनत्वविशेष एव । चेतनशब्दः
इह जीवविषयः; बद्धमुक्तनित्यरूपेण जीवानां त्रैविध्यम् । अचेतनशब्दश्चात्र अचिद्द्रव्यपरः ।
त्रिगुणकालशुद्धसत्वरूपेण अचेतनत्रैविध्यम् । द्रव्याणां तदधीनत्वोक्त्या तत्तद्धर्माणां तादधीन्यं
कै मुत्यसिद्धमिति तदनुक्तिः । अचेतनद्रव्यस्यापि धर्मभूतज्ञानस्य चेतनग्रहणे
विशेषणतयोपात्तत्वादत्र पृथगनुपादानम् । चेतनमात्रे वा त्रैविध्यान्वयः । चेतनाचेतनानां स्वरूपं
स्वासाधारणस्वभावैर्निरूप्यं धर्मि, तस्य भेदः तत्तद्व्यक्तितो वर्गतश्च परस्परव्यावृत्तिरूपो धर्मः ।
स्थितिः - कालान्तरेऽपि विद्यमानता; सा च द्रव्याणां स्वरूपेण सर्वकालानुवृत्तिरूपा । तेषां
तत्तदवस्थाविशिष्टवेषेण तु कालपरिच्छिन्ना कालतारतम्यवती चेति तद्भेदः । प्रवृत्तिः
व्यापारः । निवृत्तिरप्यकरणसङ्कल्परूपा प्रवृत्तिविशेषः । एतद्भेदः तत्तत्कार्यादिभिर्द्रष्टव्यः ।
 
-