This page has been fully proofread once and needs a second look.

श्रीधराय नमः

श्रियै नमः
 

श्रीमते रामानुजाय नमः
 

श्रीभगवद्रामानुजविरचिते गद्यत्रये

श्री रङ्ग गद्य म्
 
C
 

[चिदचित्परतत्त्वानां तत्त्वयाथात्म्यवेदिने ।

रामानुजाय मुनये नमो मम गरीयसे ॥]
 

 
श्रीवेदान्तदेशिकप्रणीतं मितगद्याधिकारनामकं
 

श्रीरङ्गगद्यव्याख्यानम्
 

 
श्रीमल्लक्ष्मणमुनिना शिष्यहितैकाग्रचेतसा कथितम् ।
'

मितगद्यममितसारं'[^1] व्यक्तं व्याख्याति वेङ्कटेशकविः ॥
 

 
अत्र द्वयार्थानुसन्धानरसिकेन भगवता भाष्यकारेण बृहद्गद्ये व्याख्यातमपि द्वयम्,
'बहुधा श्रोतव्यम्' इति मन्यमानेभ्यः शिष्येभ्यः पुनरप्याकिञ्चन्यादि प्रपञ्चनपूर्वकस्वानुष्ठान-
प्रकाशनप्रक्रिययैव संक्षेपेण व्याक्रियते ।
 

तथा हि - अत्रादिमं वाक्यं उत्तरखण्डस्य विवरणम्; द्वितीयं पूर्वखण्डस्य ।

तेनैवाधिकारविशेषः कार्पण्यरूपं अङ्गं च प्रदर्शितम्[^2] । तृतीयं तु महाविश्वासा-
द्यङ्गान्तरज्ञापकम् । अनन्तरं श्लोकद्वयानुपठनेन पूर्वोक्त एवार्थः प्रमाणतः प्रतिष्ठाप्यते ।
ततः परेण वाक्येन पूर्णप्रपत्यकुशले जनेऽपि तत्पूरणानुगुणप्रपत्तिवाक्योञ्च्चारणवैभवं
ख्याप्यते । तत्सिद्ध्यर्थं पश्चाच्चतुर्दशभिः सम्बुद्धिभिर्नारायणशब्दोक्ताः शरण्याकारविशेषाः

प्रकाश्यन्ते । 'नमोऽस्तु ते' इत्यनेन तु प्रकृतोपाये प्रधानभूतो भरन्यासांशः, फलप्रार्थनं
वा निगद्यत इति विभागः ।
 

 
 
 
 
[^
1]. मितगद्यममृतसारं -
[^
2]. प्रदर्शितं भवति - अ ।
 

 
-