2023-04-07 05:36:08 by ambuda-bot
This page has not been fully proofread.
श्रीधराय नमः
श्रियै नमः
श्रीमते रामानुजाय नमः
श्रीभगवद्रामानुजविरचिते गद्यत्रये
श्री रङ्ग गद्य म्
C
[चिदचित्परतत्त्वानां तत्त्वयाथात्म्यवेदिने ।
रामानुजाय मुनये नमो मम गरीयसे ॥]
श्रीवेदान्तदेशिकप्रणीतं मितगद्याधिकारनामकं
श्रीरङ्गगद्यव्याख्यानम्
श्रीमल्लक्ष्मणमुनिना शिष्यहितैकाग्रचेतसा कथितम् ।
'मितगद्यममितसारं' व्यक्तं व्याख्याति वेङ्कटेशकविः ॥
अत्र द्वयार्थानुसन्धानरसिकेन भगवता भाष्यकारेण बृहद्गद्ये व्याख्यातमपि द्वयम्,
'बहुधा श्रोतव्यम्' इति मन्यमानेभ्यः शिष्येभ्यः पुनरप्याकिञ्चन्यादिप्रपञ्चनपूर्वकस्वानुष्ठान-
प्रकाशनप्रक्रिययैव संक्षेपेण व्याक्रियते ।
तथा हि अत्रादिमं वाक्यं उत्तरखण्डस्य विवरणम्; द्वितीयं पूर्वखण्डस्य ।
तेनैवाधिकारविशेषः कार्पण्यरूपं अङ्गं च प्रदर्शितम् । तृतीयं तु महाविश्वासा-
द्यङ्गान्तरज्ञापकम् । अनन्तरं श्लोकद्वयानुपठनेन पूर्वोक्त एवार्थः प्रमाणतः प्रतिष्ठाप्यते ।
ततः परेण वाक्येन पूर्णप्रपत्यकुशले जनेऽपि तत्पूरणानुगुणप्रपत्तिवाक्योञ्चारणवैभवं
ख्याप्यते । तत्सिद्ध्यर्थं पश्चाच्चतुर्दशभिः सम्बुद्धिभिर्नारायणशब्दोक्ताः शरण्याकारविशेषाः
प्रकाश्यन्ते । 'नमोऽस्तु ते' इत्यनेन तु प्रकृतोपाये प्रधानभूतो भरन्यासांशः, फलप्रार्थनं
वा निगद्यत इति विभागः ।
1. मितगद्यममृतसारं अ 2. प्रदर्शितं भवति - अ ।
-