This page has been fully proofread once and needs a second look.

86
 
मज्ज्ञानदर्शनप्राप्तिषु
 

निस्संशयः, सुखमास्स्व! ॥ २४ ॥

['[^१]तृणीकृतविरिञ्चादि निरङ्कुशविभूतयः ।

रामानुजपदाम्भोजसमाश्रयणशालिनः ॥ २५ ॥]
 
शरणागतिगद्यम् -
 
-
श्रु. भा. - अतः भक्तिसाध्यं प्रपत्त्यैव लभ्यमिति निर्भरेण त्वया भवितव्य- मित्याह -
अतस्त्वम् इति । आचार्यतो लब्धं ज्ञानं यथा तत्त्व विषयमिति - न संशयः,
 
-
 
>
 
GAYAGAYAGRÜAVRGAURYAVZUAÜRÜNÜRÜNÜRSÜPÜRÜRURLAURUA
 

र.र. - मज्ज्ञानदर्शनप्राप्तिषु यथायोगमत्र परत्र च अपेक्षितास्विति शेषः ।
 

'निस्संशयेषु सर्वेषु नित्यं वसति वै हरिः ।
 

ससंशयान् हेतुबलान्नाध्यवसति माधवः' ॥ (म.भा.शां.३५९-७१)

इत्यादिप्रमाणसूचनायाह - निःसंशय इति । सिद्धस्यैव ज्ञानस्य अनुवृत्तौ संशय इह
निवार्यते । अनेनैव निर्भरत्वादिकमप्याकृष्यते । सुखमास्स्व - आध्यात्मिकेत्यादिना पूर्वं
मयोक्तमेव तवोचितमिति भावः ।
 

यावच्छरीरपातम् इति पूर्वोक्तस्यानुक्तेरयम्'[^1] अभिप्रायः मत्प्राप्तेः प्रारब्धकर्म-
प्रतिनियतायुरवसाननिर्बन्धो नास्ति; यावदत्रत्यमदनुभवापेक्षा तावदत्र सुखमास्स्व;
परिपूर्णानुभवालाभादिह सुखासिकायामप्युद्वेगे सति आयुः शेषशृङ्खलामप्यपोह्य
आत्यन्तिकमत्कैङ्कर्याय मत्पदं गमिष्यसि - इति ।
 

एतेन अनादिकालमाज्ञातिलङ्घनमूलभगवदप्रसादेन संसरतो मे भगवत्कृ- पामूल
सदाचार्याङ्गीकारेण द्वयोच्चारण अनूच्चारणपूर्वक स्वरक्षाभरन्यासे सिद्धे, प्रसादनेषु
अस्मादभ्यधिकस्याभावात् स्वीकृतभरः श्रियः पतिः नारायणः कालत्रयवर्तिनः सर्वान्
अप्रसादहेतून् यथार्हं क्षान्त्वा, स्वयमेव स्वार्थमेव मां स्वज्ञानदर्शनप्राप्त्यादिप्रदानेन रक्षेदिति
विश्वस्तो निर्भरो निर्भयः सन्तुष्टो भवेति[^2] निगमितं भवति ॥
 

 
 
 
[^
]. मन्दिरे पारायणकाले एषः अनुसन्धीयते ।

[^
1]. पूर्वोक्तस्यात्रानुक्तेरयम् - अ ।
[^
2]. भवेदिति अ ।
 
- अ ।