This page has not been fully proofread.

86
 
मज्ज्ञानदर्शनप्राप्तिषु
 
निस्संशयः, सुखमास्स्व! ॥ २४ ॥
['तृणीकृतविरिञ्चादि निरङ्कुशविभूतयः ।
रामानुजपदाम्भोजसमाश्रयणशालिनः ॥ २५ ॥]
 
शरणागतिगद्यम् -
 
श्रु. भा. - अतः भक्तिसाध्यं प्रपत्त्यैव लभ्यमिति निर्भरण त्वया भवितव्यमित्याह -
अतस्त्वम् इति । आचार्यतो लब्धं ज्ञानं यथा तत्त्व विषयमिति - न संशयः,
 
-
 
>
 
GAYAGAYAGRÜAVRGAURYAVZUAÜRÜNÜRÜNÜRSÜPÜRÜRURLAURUA
 
र.र. - मज्ज्ञानदर्शनप्राप्तिषु यथायोगमत्र परत्र च अपेक्षितास्विति शेषः ।
 
'निस्संशयेषु सर्वेषु नित्यं वसति वै हरिः ।
 
ससंशयान् हेतुबलान्नाध्यवसति माधवः' ॥ (म.भा.शां.३५९-७१)
इत्यादिप्रमाणसूचनायाह - निःसंशय इति । सिद्धस्यैव ज्ञानस्य अनुवृत्तौ संशय इह
निवार्यते । अनेनैव निर्भरत्वादिकमप्याकृष्यते । सुखमास्स्व - आध्यात्मिकेत्यादिना पूर्वं
मयोक्तमेव तवोचितमिति भावः ।
 
यावच्छरीरपातम् इति पूर्वोक्तस्यानुक्तेरयम्' अभिप्रायः मत्प्राप्तेः प्रारब्धकर्म-
प्रतिनियतायुरवसाननिर्बन्धो नास्ति; यावदत्रत्यमदनुभवापेक्षा तावदत्र सुखमास्स्व;
परिपूर्णानुभवालाभादिह सुखासिकायामप्युद्वेगे सति आयुः शेषशृङ्खलामप्यपोह्य
आत्यन्तिकमत्कैङ्कर्याय मत्पदं गमिष्यसि - इति ।
 
एतेन अनादिकालमाज्ञातिलङ्घनमूलभगवदप्रसादेन संसरतो मे भगवत्कृपामूल
सदाचार्याङ्गीकारेण द्वयोच्चारण अनूच्चारणपूर्वक स्वरक्षाभरन्यासे सिद्धे, प्रसादनेषु
अस्मादभ्यधिकस्याभावात् स्वीकृतभरः श्रियः पतिः नारायणः कालत्रयवर्तिनः सर्वान्
अप्रसादहेतून् यथार्हं क्षान्त्वा, स्वयमेव स्वार्थमेव मां स्वज्ञानदर्शनप्राप्त्यादिप्रदानेन रक्षेदिति
विश्वस्तो निर्भरो निर्भयः सन्तुष्टो भवेति निगमितं भवति ॥
 
१. मन्दिरे पारायणकाले एषः अनुसन्धीयते ।
1. पूर्वोक्तस्यात्रानुक्तेरयम् - अ । 2. भवेदिति अ ।