This page has been fully proofread once and needs a second look.

व्याख्याद्वयोपेतम्
 
85
 
'अनृतं नोक्तपूर्वं मे न च वक्ष्ये कदाचन' । (रा.कि.७-२२)

'रामो द्विर्नाभिभाषते (रा. अयो. १८-३०)

'सकृदेव प्रपन्नाय तवाऽस्मीति च याचते ।
 

अभयं सर्वभूतेभ्यो ददाम्येतद्व्रतं मम' ॥ (रा.यु.१८-३३)

'सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज ।
 

अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः' ॥ (भ.गी. १८-६६)

इति मयैव ह्युक्तम् ॥ २३ ॥ अतस्त्वं तव तत्त्वतो
 

श्रु.भा. - अनृतस्यानुक्तत्वमाह - अनृतम् इति । उक्तस्य दृढत्वमाह - रामो द्विः इति ।
न केवलं तव । अन्येषामपि मयोक्तमिति आह सकृत् इति । अवतारद्वयेऽपि वचनद्वयम् ।
 
BRUAURUAURUAURUAURYAURUAUTÜDÜRÜNÜRÜNÜRÜKÜDÜRÜRUR
 
र.र.

र.र.-
यद्येतदुपच्छन्दनम्; तदा मे स्ववचनविरोधः स्यादित्यभिप्रायेणाह - अनृतं
नोक्तपूर्वं मे इति । इयमनृतानुक्तिराश्रितविषया, आसुरेषु प्रतारण दर्शनात् । अनुक्तपूर्वमप्यनृतं
पश्चात् स्वातन्त्र्यादुच्येतेत्यत्राह - न च वक्ष्ये कदाचन इति । इतः पूर्वमिवेति भावः ।
 

इदमपि त्वद्वाक्यतया पूर्ववदाशङ्कनीयमित्यत्र 'सत्यवादी च राघवः) (रा. अयो. २-३३)
इति प्रसिद्धं लोकोक्तिच्छायया स्वयमेवाह रामो द्विर्नाभिभाषते इति । स्वोक्तविरुद्धं
नाभिभाषत इत्यर्थः । मम सकृदुक्त्यैवार्थिनामपेक्षि- तार्थः सिद्ध्येदिति वा तात्पर्यम् । एवं
सामान्यतः प्रत्यायितस्य प्रकृतपर्य- वसानाय रावणानुजपरिग्रहे पार्थोपदेशपर्यवसाने च
विशेषत उक्तं श्लोक द्वयमाह सकृदेव इति, सर्वधर्मान् इति च ।
वेदवैदिकवाक्यमात्रातिशायि- नोरनयोः शरण्यवाक्ययोरर्थं तदधिकारयोरभिधास्यामः । इदं
मोक्षप्रदानो- त्सुकेन मयेवोक्तम्; न तु मदादे शभूतदु रधिगमार्थवेदमुखेन वा
संभवद् भ्रमादिदोषपुरुषान्तरमुखेन वेत्याह- मयैव ह्युक्तम् इति । हि प्रसिद्धौ हेतौ वा ।
 

 
>
 
-
 

उक्तमेव स्थिरीकरणार्थं सन्तोषातिशयार्थं च निगमयति - अत इति । अतः सत्यवादिना
सत्यव्रतेन मयोक्तस्य वाक्यस्य विश्वसनीयतमत्वात् । त्वम् - प्रामाणिकः । तव - 'ये प्रपन्ना
महात्मानस्ते मे नयनसंपदः' (पाञ्चरात्रम्) इति मत्प्रशंसनीयस्य, मत्स्वीकृतभरस्य च ।
तत्त्वतः - संशयविपर्यय- राहित्येन । ।