This page has been fully proofread once and needs a second look.

तदानीमेव मत्प्रसादलब्ध-मच्चरणारविन्दयुगलैकान्तिकात्यन्तिक-
परभक्ति-परज्ञान-परमभक्तिकृत-परिपूर्णानवरत-नित्य-विशदतम-
अनन्यप्रयोजनानवधिकातिशय-प्रियमदनुभवजनित-अनवधिकातिशय - प्रीतिकारिताशेषावस्थोचिताशेष-शेषतैकरतिरूप नित्यकिङ्करो भविष्यसि ॥ २१ ॥
[शरणागतस्य शरण्यविषये नैर्भर्यम्]
मा ते भूदत्र संशयः ॥ २२ ॥
श्रु. भा. तदानीमेव - प्रकृतिं विमोक्षा [^1]नन्तरमेव । उपरि पूर्ववत् ।
इदमाश्वासनवाक्यमिति न संशयितव्यम् इत्याह मा ते भूत् इति ।
र.र. - अपेक्षणीयान्तराभावात् न विलम्ब इति भावः । प्रसाद इह तिरोधाय कांशपर्यन्तस्य निग्रहरूपकालुष्यस्य निःशेषनिवृत्त्या सूरिष्विव स्वभावत एवावस्थितं सौहार्दम्; तच्चात्र निर्दुःखनित्यनिरतिशयानन्दमनुभवत्वसावि- तीच्छैव । अत्र तावदस्ति क्षुद्रफलेष्वप्युपायगौरवम्; मोक्षे तु - 'अनेकजन्म संसिद्धिः, (भ.गी.६-४५) 'क्लेशेन महता सिद्धैः' (लघुतन्त्रम्) 'क्षपयित्वाऽधि कारान् स्वान् शश्वत् कालेन भूयसा' (ल.तं. १७-१८) इत्यादिभिः कृच्छ्रसाध्य तयोक्ते 'विधिशिवसनकाद्यैर्ध्यातुमत्यन्तदूरम्' (स्तो.र.४७) गुरूपायसाध्ये न्यासमात्रनिष्ठस्य मादृशस्य निर्यत्नलब्धिवचनमुपच्छन्दनमिति केषाञ्चिच्छङ्का जायेत, अतस्तान् वित्रम्भयितुं भाष्यकारमपदिश्याह - मा ते भूदत्र संशय इति । ननूपायलाघवप्राप्यगौरवादिनिमित्तशङ्काविधूननेन महा विश्वासपूर्वकं शरणमुपगतस्य संशयप्रसङ्गाभावादत्र तत्प्रतिषेधो निरर्थक: ? मैवम्; तादात्विकमहाविश्वासेनोपाये निष्पन्नेऽपि तस्य फलाविनाभावेऽपि केषाञ्चित् प्रारब्धकर्मविपाकवैचित्र्यात् संशयोऽपि संभवति ; न च तेनोपाय वैकल्यम्, फलप्रतिबन्धो वा । मतिकालुष्यनिवृत्तिस्तु अत्रत्यपरभक्त्यादिवत् स्वयं पुरुषार्थः; अतः प्रसन्नेन भगवता संशयनिवर्तनमुपपद्यत इति । यद्वा, यावत्फललाभं विमर्शदशायामक्षोभणीयो विश्वासो महाविश्वासः, स च तात्कालिक उपायाङ्गम् ; पश्चात्तु मदभिप्रायं मद्वाक्यं च परामृशतां मदनु- ग्रहादेव संशयो न भवत्येवेति ज्ञापनार्थमिह मा ते भूत् इत्यादि । निःसंशयः इत्यन्तमुच्यते इति । ते - निश्चितशास्त्रार्थस्य सर्वसुहृदि सर्वशक्तौ[^2]
मयि न्यस्तभरस्य च । अत्र - मत्प्रयोजनप्रधानायां मन्नित्यकिंकरत्वप्राप्तौ ।
 
 
 
 
[^1]. विमोका - आ ।
[^2]. सर्वशक्तौ च -आ।