This page has been fully proofread once and needs a second look.

व्याख्याद्वयोपेतम्
 
83
 
जीर्णमिव वस्त्रं सुखेन, इमां प्रकृतिं स्थूलसूक्ष्मरूपां विसृज्य,
 

र. र. - लब्धनूतनशुभवस्त्रान्तरस्य जीर्णवस्त्र इव अत्यासन्नदिव्यदेहलाभस्य चिरपरिचितेऽपि
भोगायतने जिहासोत्पत्तिमनायासहानप्रीतिं च निदर्शयति - जीर्णमिव वस्त्रम् इति ।
'कृतकृत्याः प्रतीक्षन्ते' (इति.स.६-३७) 'नोपजनं स्मरन्निदं शरीरम्' (छां.उ.८-१२-३) इत्यादिभिः
अभिप्रेतं लब्धपरित्याग- क्लेशाभावम्, यमकिङ्करादिभयाभावम्, चिकित्सकशल्य-
प्रयोगन्यायशङ्- कि तोत्क्रमणदु:खाभावम्, अत्यासन्नपरमपुरुषार्थानुसन्धान
हार्दानुग्रहता- दात्विकभगवदनुभवातिवाहिकदर्शनजनित हर्षप्रकर्षं[^1] च अभिप्रेत्याह- सुखेन
इति । इमाम् - अनाद्यनुवृत्तां भगवत्स्वरूपतिरोधानादिभिपकारिणीं कारागृहनरकादिवत्
अनुसंहितां दुरत्ययां मदन्यैः त्याजयितुमशक्यां चेति भावः । प्रकृतिम् - सततविकारशीलं
त्रिगुणद्रव्यम् । उत्क्रान्तिपादे च अर्चिरादिपादे चोक्तं सर्वमभिप्रेत्याह स्थूलसूक्ष्मरूपां
विसृज्य इति । स्थूलप्रकृतित्यागोऽत्रैव; सूक्ष्मप्रकृतित्यागस्तु
 
-
 

'त्रिभावभावनातीतो मुक्तये योगिनां नृप! ।
 

देवयानं परः पन्था योगिनां क्लेशसंक्षयः' ॥ (वि.पु. ६-७-७६)

इत्याद्युक्त देवपथेन'[^2] दिव्यदेशगमनदशायामेव भवति । एष सम्प्रसादोऽस्माच्छरीरात्
समुत्थाय परं ज्योतिरुपसंपद्य', (छां.उ.८-३-४) 'स एवं विद्वानस्माच्छरीरभेदादूर्ध्वमुत्क्रम्य
अमुष्मिन् स्वर्गे लोके सर्वान् कामान् आप्त्वा अमृतः समभवत्' (ऐ.उ. ४-६) इत्यादिषु
ब्रह्मप्राप्तिपर्यन्त अभिधानात् तिरोधायकसूक्ष्मप्रकृतिविश्लेषोऽप्यभिप्रेतः । सुबालोपनिषदि

तु 'अपुनर्भवाय नाड्या कोशं भिनत्ति ) ( सु.उ.११-२) 'कोश भित्त्वा शीर्ष कपालं भिनत्ति' 'शीर्षकपालं
 
भिनत्ति' 'शीर्षकपालं
भित्त्वा पृथिवीं भिनत्ति', इत्यारभ्य 'अक्षरं भित्त्वा मृत्युं भिनत्ति'
(सु.उ.११ - २) इत्यन्तेन स्थूलशरीरत्यागपूर्वकतमः- पर्यन्तसर्वतत्त्वातिक्रम उक्तः ।
 

तदेवंक्रमेण सूक्ष्मप्रकृतिविमोक्षानन्तरं स्वस्यैव प्रसादेन अविलम्बितमनोरथ पूर्तिमाह
- तदानीमेव इति ।
 

 
[^
1]. हर्षं - अ ।
[^
2]. देवयानपथेन - अ ।
 
-