2023-04-07 05:36:07 by ambuda-bot
This page has not been fully proofread.
व्याख्याद्वयोपेतम्
83
जीर्णमिव वस्त्रं सुखेन, इमां प्रकृतिं स्थूलसूक्ष्मरूपां विसृज्य,
र. र. - लब्धनूतनशुभवस्त्रान्तरस्य जीर्णवस्त्र इव अत्यासन्नदिव्यदेहलाभस्य चिरपरिचितेऽपि
भोगायतने जिहासोत्पत्तिमनायासहानप्रीतिं च निदर्शयति जीर्णमिव वस्त्रम् इति ।
'कृतकृत्याः प्रतीक्षन्ते' (इति.स.६-३७) 'नोपजनं स्मरन्निदं शरीरम्' (छां.उ.८-१२-३) इत्यादिभिः
अभिप्रेतं लब्धपरित्यागक्लेशाभावम्, यमकिङ्करादिभयाभावम्, चिकित्सकशल्य-
प्रयोगन्यायशङ् कि तोत्क्रमणदु:खाभावम्, अत्यासन्नपरमपुरुषार्थानुसन्धान
हार्दानुग्रहतादात्विकभगवदनुभवातिवाहिकदर्शनजनित हर्षप्रकर्षं च अभिप्रेत्याह- सुखेन
इति । इमाम् - अनाद्यनुवृत्तां भगवत्स्वरूपतिरोधानादिभिरपकारिणीं कारागृहनरकादिवत्
अनुसंहितां दुरत्ययां मदन्यैः त्याजयितुमशक्यां चेति भावः । प्रकृतिम् - सततविकारशीलं
त्रिगुणद्रव्यम् । उत्क्रान्तिपादे च अचिरादिपादे चोक्तं सर्वमभिप्रेत्याह स्थूलसूक्ष्मरूपां
विसृज्य इति । स्थूलप्रकृतित्यागोऽत्रैव; सूक्ष्मप्रकृतित्यागस्तु
-
'त्रिभावभावनातीतो मुक्तये योगिनां नृप! ।
देवयानं परः पन्था योगिनां क्लेशसंक्षयः' ॥ (वि.पु. ६-७-७६)
इत्याद्युक्त देवपथेन' दिव्यदेशगमनदशायामेव भवति । एष सम्प्रसादोऽस्माच्छरीरात्
समुत्थाय परं ज्योतिरुपसंपद्य', (छां.उ.८-३-४) 'स एवं विद्वानस्माच्छरीरभेदादूर्ध्वमुत्क्रम्य
अमुष्मिन् स्वर्गे लोके सर्वान् कामान् आप्त्वा अमृतः समभवत्' (ऐ.उ. ४-६) इत्यादिषु
ब्रह्मप्राप्तिपर्यन्त अभिधानात् तिरोधायकसूक्ष्मप्रकृतिविश्लेषोऽप्यभिप्रेतः । सुबालोपनिषदि
तु 'अपुनर्भवाय नाड्या कोशं भिनत्ति ) ( सु.उ.११-२) 'कोश भित्त्वा शीर्षकपालं
भिनत्ति' 'शीर्षकपालं भित्त्वा पृथिवीं भिनत्ति, इत्यारभ्य 'अक्षरं भित्त्वा मृत्युं भिनत्ति'
(सु.उ.११ - २) इत्यन्तेन स्थूलशरीरत्यागपूर्वकतमः पर्यन्तसर्वतत्त्वातिक्रम उक्तः ।
तदेवंक्रमेण सूक्ष्मप्रकृतिविमोक्षानन्तरं स्वस्यैव प्रसादेन अविलम्बितमनोरथपूर्तिमाह
तदानीमेव इति ।
1. हर्षं - अ । 2. देवयानपथेन - अ ।