2023-04-07 05:36:07 by ambuda-bot
This page has not been fully proofread.
82
-
श्रु. भा. - दयया एवेति एवकारः पुष्कलत्वद्योतकः । अतिप्रबुद्धः - जीवद्दशायां
प्रबोधः अन्धतमसस्थानीय इति भावः । परमात्मनि विश्रमानन्तरं भाव्ययं प्रबोधः, ततः प्राक्तनं
स्मरणम्, अन्तिममुपासकानाम् अपेक्षितम् । प्रपन्नन्तु 'काष्ठपाषाणसन्निभम्' (वरा.च.श्लो.)
भगवानेव स्मरति । स्वस्मिन् विश्रमानन्तरं प्रबोधं च जनयति । 'तेन प्रद्योतेनैष आत्मा
निष्क्रामति' (बृ.उ.६-४-२) इति हि श्रूयते । अतः तदा बोधसिद्धिः । माम् - स्वरूपरूपगुण-
विभवान्वितम् एव इति विषयान्तरकालुष्यविरह उक्तः । अवलोकयन्- साक्षात्कुर्वन् ।
अप्रच्युत इति गुरूपदेशादिजन्यसंस्कारः । भगवत्प्राप्तीच्छा च अप्रच्युते यस्य स तथोक्तः ।
KRUAGRUAURUAWAMAKSÜPÜSÜNÜZÜSÜRÜPÜRÜRÜRÜNÜRÜAKSUA
1. नान्यदीयता
केवलं मदीययैव दयया अतिप्रबुद्धः,
मामेवाऽवलोकयन्, अप्रच्युतपूर्वसंस्कारमनोरथः,
र.र. केवलं पूर्वाभ्यासानपेक्षम्, 'यं योगिनः, (म.भा. शां. ४६-१३९)
इत्याद्युक्ततादात्विक-स्वयत्ननिरपेक्षं च । मदीययैव मत्स्वभावभूतयैव, नान्यदीयया,
नापि पूर्वोक्तक्षेत्रवासद्वयार्थानुसन्धानजन्यया, न च तादात्विकप्रार्थनासापेक्षायेत्यर्थः ।
अतिप्रबुद्धः - शरीरपातात् पूर्वकाल इव ज्ञानपौष्कल्यवान् । यद्वा, न केवलं
सङ्कोचाभावमात्रम्, किन्तु प्रत्यूषप्रकाशकल्पपूर्वावस्थातोऽतिशयोऽपि स्यादित्यर्थः ।
अपरिच्छिन्नस्तु प्रबोधो विशिष्टदेशगत्यनन्तरभावी । अन्तिमदशायाम् आदिभरतादिवदन्यदर्शनं
तव न स्यादित्याह - मामेवावलोकयन् इति । नित्यमनुचिन्तनं मामेव शुभाश्रयविग्रहविशिष्टं
विशदमनुसंदधान इत्यर्थः । अविच्छिन्नसाक्षात्कारं कुर्वन्निति वा तदानीमवलोकनीयं
सर्वं भगवदपृथक्सिद्धतयैव भातीति वा अवधारणस्याभिप्रायः ।
-
एवं ज्ञानदर्शने प्रोक्ते; अथ वक्ष्यमाणायाः प्राप्तेः पुरुषार्थत्वाय तदिच्छानुवृत्तिमाह
अप्रच्युत इति । भगवानेव मे परमप्राप्य इति शास्त्रजन्यानुभवसंस्कारस्य कालविप्रकर्षकाय-
विश्लेषक्लेशादिभिः प्रच्युतिः न भविष्यति; तत एव संस्कारमूल: प्राप्तिमनोरथोऽपि तदानीं
भवतस्त्यज्य' मानेषु देहतदनुबन्धिषु रागाद्वा, किं भविष्यतीति भयाद्वा न उ प्रयवत
इति भावः । अतिप्रबुद्धः इत्यादिभिः परभक्तयादित्रयं वा परमात्मनि
विश्रमादनन्तरभाविप्रबोधादिकं वा विवक्षितमिति केचित् ।
। 2. भवतस्त्याज्य
शरणागतिगद्यम् -
अ ।
3. प्रच्युत आ ।