This page has been fully proofread once and needs a second look.

व्याख्याद्वयोपेतम्
 
[निरन्तरायतया भगवन्मार्गप्रयाणानुगुणावस्थायाः उत्क्रमणसमये भगवदनुग्रहतः सिद्धिः]

शरीरपातसमये तु,
 
81
 

श्रु. भा. - शरीर इति । केवलं त्वय्यकिञ्चित्करेऽपीति भावः ।
 
URUAURUAGRÜNÜDÜRÜRÜPÜRÜNÜRÜDÜRÜAÜRÜNÜRÜSÜRÜAUXÜS
 
र. र.
 

र. र.-
इदं तु स्वभावार्थशास्त्रप्राप्ताविरोधेन नेयम्, अन्यथा सर्वप्रमाण विरोधात् ।
'तस्य तावदेव चिरं यावन्न विमोक्ष्ये,' (छां.उ.६-१४-२) 'प्रारब्ध- मात्रं भुक्त्वाऽत्र'[^1] तत्त्ववित्
सुखमाप्नुयात्', (पाञ्चरात्रम्) 'प्रारब्धमेव भोक्तव्यं कर्मब्रह्मविदामपि (पाञ्चरात्रम्) 'अनारब्धकार्ये
एव तु पूर्वे तदवधेः' (ब्र.सू. ४-१-१५) इति दर्शितः प्रक्रान्तकर्मफलभोगोऽपि प्रपन्नस्य
यथाभि- लाषं प्रपत्त्युत्पत्तिशरीरावधिरित्यभिप्रायेणाह - यावच्छरीरपातम् इति ।

आतितारतम्या [^2]त्र[^2] स्थितितारतम्यम् । अत्रैव - अत्यन्तासन्नम- त्सेवानुगुणे, न तु
मत्कैङ्कर्यविरुद्धदेशेष्वित्यर्थः । अत्र अनेकपुराणादि प्रसिद्ध श्रीरङ्गोपादानं भागवताभिमत-
स्वयंव्यक्तादिभगवत्क्षेत्रान्तराणामप्यु- पलक्षणम् । सुखमास्स्व - कृतकृत्यत्वप्रतिसन्धानेन
प्रतिदिनं कर्मक्षय दर्शनेन अविलम्बितानायासपरमपुरुषार्थलाभव्यवसायेन विषमधुकल्प-

वैषयिकरसवैमुख्यहेतुभूतद्वयार्थानुसन्धानसारस्येन च सन्तुष्टो वर्तस्वेत्यर्थः । स चायमत्रत्य-
सेवासौकर्यार्थ उपदेशः; सुखी भवेतिवदनुग्रहोक्तिर्वा । एवमर्थानुसंधानद्वयवचनसुखासिकाभिः
मनोवाक्कायानामयोग्यव्यापार निवृत्तिरपि स्यात् ।
 

भवत्वेवं कृतकृत्यस्योत्तरकृत्यं फलम् । देहपातदशा कीदृशी ? परमफलं च
कदा? इत्याकाङ्क्षायां प्रारब्धशरीरानुवर्तकप्रतिबन्धनिवृत्तौ दयार्णवस्य दिव्यशक्तेः स्वस्य
पूर्वकृतरक्षासङ्कल्पानुगुणमन्यैरनिवार्यमुत्तरकृत्यमाह - शरीरपातसमये इति । 'वाङ्मनसि '
(छां. उ. ६-८-६) इत्यादिश्रुतिसिद्धाय मनःसंपत्तेः पूर्वावस्थायामित्यर्थः । एतेन 'निशि नेति
चेत् न' (ब्र.सू.४-२-१८) इत्याद्युक्तः कालनियमाभावश्च सूचितः 'ततस्तं म्रियमाणं तू' (वरा.च.श्लो.)

इतिवत् । अत्र तुशब्दोऽधिकार्यन्तराद्विशेषमनुग्रहकार्यं द्योतयति । यद्वा, काष्ठपाषाणसंनिभतया
स्वेन वा परैर्वा तदानीं प्रबोधस्य दुःसंपादत्वम् । एवं तुशब्दद्योतितमेव विशेषं व्यनक्ति
- केवलं इत्यादिना ।
 

 
 
 
[^
1]. मात्रभुक् - अ ।
[^
2]. दत्रत्य - अ ।
 
-
 
-