This page has been fully proofread once and needs a second look.

शरणागतिगद्यम् -
 
[द्वयार्थचिन्तनसहकृतमन्त्रानुसन्धानयुतयावदायुष श्रीरङ्गवासस्य भगवता लाभ:]

आध्यात्मिक- आधिभौतिक- आधिदैविक-दुःख - -विघ्न- गन्ध-रहितस्त्वम्,

द्वयमर्थानुसन्धानेन सह सदैवं वक्ता;
 

यावच्छरीरपातम् अत्रैव श्रीरङ्गे सुखमास्स्व ॥ २० ॥
 
80
 

श्रु. भा. - शरीरपातावधिकल्पकालः एवं विनोदेन नेय इत्याह - आध्यात्मिक इति ।
दुःखरूपो विघ्नः । तत्र सङ्गरहितत्वे हेतुमाह - द्वयम् इति । सदैवम् इति क्षणमात्रं
द्वयार्थानुसन्धानाभावे सति तापत्रयस्य अवकाशः स्यात् । 'अतः'[^1] निरन्तरानुसन्धानेन
तद्विरहः कार्य इति भावः । उपायत्वे द्वयोक्तिरेव अलमितिकृत्वा वक्तारं मां तारय इत्युक्तम् । अत्र
तु अर्था- नुसन्धानं भोगरूपत्वेन उक्तम् । अत्रैव इत्युपलक्षणम् । भगवदभिमान- तदीय-
संबन्धव' [^2]द्देशविशेषेषु'[^2] इत्यर्थः । यावच्छरीरपातं इति कियानयं काल इति भावः ।
 
GRUAURUAURUAURUAURYAÜRÜNÜRÜAURUPURUPURPUPURUAURUS
 

र.र. - भयावहायां देहेन्द्रियादिदशायां कथं कुत्र च निरपायः कालक्षेप इत्यत्राह -
आध्यात्मिक इति । अत्रत्योत्कटसुखस्याप्युपलक्षणार्थमिह दुःखोक्तिः । श्लोकत्रयाद्युक्तज्ञान-
भक्तिशालिनं प्रति प्रातिकूल्याविशेषाद्वा दुःखशब्देन सुखस्यापि सङ्ग्रहः । गन्धशब्देन
वा तद्विवक्षा । तेन सर्वसाधारणः क्षुदादिर्वाऽभिप्रेतः । दुःखस्य द्वयार्थानुसन्धानं प्रति विघ्नत्वं

स्यात्, अतस्तद्राहित्योक्तिः । इह च पूर्णविवेकानामाभिमानिकं दुःखं सुखं च नास्ति ।
सांस्पर्शिकानां तु प्रारब्धकर्मवशात् संभवतामपि प्रतिदिनं कर्मक्षयमोक्षासक्तिदर्शनप्रीत्या
द्वयार्थानुसन्धानविघ्नत्वं नातीवास्ति । अतो न प्रत्यक्षादिविरोधः । त्वम्
नन्यज्ञानभक्त्यादिप्रार्थनावान् ।
 

उच्चारणं प्राधान्येन स्तोतुमर्थानुसन्धाने सहशब्दः । एवम् अर्थानुसन्धानेन

इत्यन्वयः । एवम् - 'अखिलहेय' इत्याद्युक्तविशदप्रकारेणेत्यर्थः । एतच्चान्त्र '[^3]कृतकृत्यत्वप्रतिसन्धान -
[^3]-प्रीत्यर्थम्, अस्य च स्वयंप्रयोजनकैङ्कर्यरूपत्वात् । 'यन्मुहूर्तम्' (ग.पु.पू. खं.२२२-२२)

इत्यादिन्यायेन भगवदनुभवप्रीत्यनुवृत्त्यर्थं, संभवद्वन्द्वतितिक्षार्थं, निर्भरत्वानुसन्धान-
रसानुवृत्त्यर्थम्, निषिद्धकाम्यादिसङ्गनिवृत्त्यर्थं च सदा इत्युक्तिः ।
 

 
 
 
[^
1]. अत एव ।
[^
2]. द्देशे 1 षु ।
[^
3]. कृतकृत्यत्वानुप्रतिसन्धान - अ ।