This page has not been fully proofread.

79
 
व्याख्याद्वयोपेतम्
 
मदेकानुभवः; मद्दास्यैकप्रियः; परिपूर्णानवरत - नित्य- विशदतमानन्यप्रयोजन-
अनवधिकातिशयप्रिय मदनुभवस्त्वम् ;
 
तथाविधमदनुभवजनितानवधिकातिशयप्रीतिकारित-अशेषावस्थोचित
अशेषशेषतैकरतिरूप नित्यकिङ्करो भव ! ॥ १८ ॥
एवम्भूतोऽसि ॥ १९ ॥
 
श्रु. भा. - आत्मीयाभिमाना'नुगुण' पुमर्थानुभाव्य'माह मदेक इति । एकशब्देन
अनुभाव्यन्तरव्युदासः । विरूपभर्त्रनुभवसाम्यव्युदासाय आह मद्दास्सैक इति । एकशब्देन
स्वरूपाननुरूपस्वातन्त्र्यस्य अपुमर्थत्वं अभिप्रेतम् ।
 
तत्कदेत्यत्राह एवंभूतोऽसि इति । कदा इति त्वरा तव यदा स्यात्, तदा
त्वमीह`गवस्थितोऽसि । अयं हि तव 'लाभ' इत्यर्थः ।
URUAURUTURÜAÜRÜAURUAURUAÜRÜNÜRÜPÜRÜNÜDÜPÜRÜSURUA
 
1
 
र.र. - नियाम्यत्वं चिदचित्साधारणम्; दासत्वं तु चेतनैकनिष्ठम्; तयोः प्रातिस्विकं
प्रयोजनमाह - मदेकानुभवो मद्दास्यैकप्रिय इति । ऐश्वर्यकैवल्यपुरुषार्थयोरिव स्वनिष्ठतया
स्वतन्त्रतया च स्वात्मानुभवप्रसङ्गोऽपि तदा न संभवतीत्यभिप्रायेण मदेकानुभवशब्दः ।
स्वाम्यनुभवप्रधानें स्वानुभवे स्वप्राधान्यगन्धनिवृत्त्यर्थं महास्यैकप्रिय इत्युक्तम् । पूर्वोक्तमेवानुभवं
परमपुरुषार्थत्वप्रतिबोधाय पूर्ववत् पौष्कल्यादिभिः विशिनष्टि - परिपूर्ण इति । तत्प्रयुक्तप्रीतिं
तत्परिवाहं च नित्यकिङ्करो भवानि इत्यन्तेन प्रार्थितं प्रयच्छति तथाविध इति ।
 

 
-
 
-
 
ईदृशस्वकैङ्कर्यसाम्राज्ययोग्यतामलभ्यलाभत्वव्यक्तया सन्तोषार्थमुत्तरकृत्यविधानार्थं च
अनुवदति एवंभूतोऽसि इति । प्रकृत्यात्मविवेकात् धार्मिकः, परावरतत्त्वविवेकाद्भागवतः,
परावरपुरुषार्थविवेकादनन्यप्रयोजनः, स्वपराधिकारविवेकादनन्यसाधनः, पूर्वोक्तात्, 'अस्तु
ते' इत्यनुग्रहविशेषात् प्रमितानुष्ठितभरन्यासः, ततश्च मया स्वीकृतभरः, नित्यकिङ्करो
भव इति दत्तवरश्च त्वं मुक्तप्रायो आसीत्यर्थः । आख्यातेन 'सन्तमेनम्' (तै.उ. आन.६-१)
इत्यवस्था व्यज्यते । यद्वा, नित्यकिङ्करो भव इति सत्यसङ्कल्पेनोक्ते, तेन वा 'स्वेन
वा प्रत्याख्यातुमशक्यत्वे निवारकान्तराभावे च तदानीमेव तथाविधात्मानमपश्यतः क्रमात्
तत्सिद्धिमाह - एवम् इति । एवं भवितुमुपक्रान्तोऽसीत्यर्थः ।
 
1. आत्माभिमाना - इ । 2. पुरुषार्थानुभव - इ । 3. गवस्थोऽसि - इ । 4. महालाभ इ ।
5. तथा - अ । 6. अन्येन अ ।