This page has been fully proofread once and needs a second look.

78
 
शरणागतिगद्यम् -
 
मत्प्रसादलब्ध-मञ्चरणारविन्दयुगलैकान्तिकात्यन्तिक-
परभक्ति-परज्ञान-परमभक्तिः ; मत्प्रसादादेव साक्षात्कृत - -यथाऽवस्थित
-मत्स्वरूप-रूप-गुणविभूति- लीलोपकरणविस्तार:;
 
अपरोक्षसिद्ध-मन्त्रिनियाम्यता-मद्दास्यैकस्वभावात्मस्वरूपः ;
 

श्रु. भा. - कदाचित्स्वरूपा'[^1]द्यनुभवव्युपदासाय विस्तारशब्दः । एवं

नारायणशब्दार्थानुभव उक्तः । तदन्तर्गतजीवस्वरूपाविर्भावमाह - अपरोक्ष इति । व्याप्तिर्धारणा
च नियमनान्तर्गते 'प्रशासने गार्गि:' (बृ. उ.५- ८-९) 'अन्तः प्रविष्ट:' (तै. आर. ३-११-२१)
इति श्रुतेः । अतः पृथग नुक्तिः । एतेन स्वाधीन प्रवृत्तित्वान्यशेषत्वाद्यशेषत्वभ्रमः± [^2] फलितः ।
 
-
 
××××××xxBRUBRUBURBRUARUBURBRUBRUABRURBRUA
 

र.र. एवमनिष्टनिवृत्तिः उक्ता; अथेष्टप्राप्तिं वदन् प्रथमं 'तेषां ज्ञानी' (भ.गी. ७-१७)
इत्यादिप्रार्थितज्ञानपूर्वकपरभक्तयादिप्रदानमाह - मत्प्रसादलब्ध इति । इह हि
परभक्तयादिवचनं तत्पूर्वभाविज्ञानविशेष स्याप्युपलक्षणम् । अत्र प्रसाद[^3 शब्दः
प्रपत्तिजनितप्रसादनिरस्त' प्रतिबन्ध[^4] निरुपाधिक सौहार्दपरः ।
 

एवं मत्प्रसादादेव इति वक्ष्यमाणेऽप्यवधारणेन'[^5] सहकारिनैरपेक्ष्यं द्योत्यते ।
मत्स्वरूप इत्यादिकमुत्तरखण्डस्थनारायणशब्दार्थः । विभूति शब्दोऽत्र नित्यविभूतिविषयः ।
उपायदशायां शास्त्रविहिततत्तत्स्थान गुणादिपरिच्छिन्नस्वरूपाद्यनुभवात् तद्व्यावृत्त्यर्थं
यथावस्थितविस्तार शब्दौ; आरोपशङ्कानिवृत्त्यर्थं वा यथावस्थित शब्दः । हेत्वभावात्
 
अत्र भ्रमाभावः ।
 

एवं सर्वविशिष्टपरमभोक्तव्यसाक्षात्कारे नारशब्दार्थस्वस्वरूपाविर्भावमपि स्वाधीन
-स्वार्थ-कर्तृत्व-भोक्तृत्व-भ्रमनिवृत्तिपूर्वक-तद्भोक्तृत्वज्ञापनाय पृथगाह - अपरोक्ष
इति । नियाम्यत्वोक्त्या अत्र व्याप्यत्वधार्यत्वे च आकृष्टे, 'अन्तः प्रविष्टः शास्ता
जनानाम्', (तै. आर. ३-११-२१,२३) 'एतस्य वा अक्षरस्य प्रशासने गागिंर्गि! सूर्याचन्द्रमसौ
विधृतौ तिष्ठतः' (बृ. उ. ५-८-९) इति श्रुत्यनुसारात् । एतेन 'स स्वराट्' (छां. उ. ७-२५-२)
इत्युक्तेऽपि मुक्ते पारतन्त्र्यादेरनपायो दर्शितः ।
 

 
 
 
[^
1]. क्वाचित्कस्वरूपा - इ ।
[^
2]. प्रवृत्तित्वाद्यशेषभ्रमव्युदासः - इ ।
[^
3]. मत्प्रसाद - अ ।

[^
4]. प्रतिबन्धक अ । - अ ।
[^
5]. वक्ष्यमाणेनाप्यवधारणेन अ ।
 
- अ ।