2023-04-07 05:36:06 by ambuda-bot
This page has not been fully proofread.
व्याख्याद्वयोपेतम्
मञ्चरणारविन्दयुगलैकन्तिकात्यन्तिक- परभक्ति-परज्ञान-
परमभक्ति-विघ्नप्रतिहतोऽपि ;
77
येनकेनाऽपि प्रकारेण द्वयवक्ता त्वम्; केवलं मदीययैव दयया;
निश्शेष - विनष्ट- सहेतुक-मञ्चरणारविन्दयुगलैकान्तिकात्यन्तिक-
परभक्ति - परज्ञान- परमभक्तिविघ्नः;
-
श्रु.भा.
येन केनाऽपि प्रकारेण इति 'आर्ततया दृप्ततया वा' इति भावः ।
केवलशब्द: आकाङ्क्षिता'नुपपत्ति व्यावृत्यर्थः । एवकारः कृपायाः पुष्कलकारणत्वपरः ।
तत्र हेतुः मदीयत्त्वम् ।
-
GAYAKNYAGRÜAURKAURYAKRÜAÜRÜNÜRÜNÜRÜAURUAURUAURUA
र.र. - तथा चाहुः - 'तस्य स्वात्मप्रदाने तु साधनं स्वपदद्वयम्, इति । अत्र परभक्त्यादिशब्दैः
देहपातात् पूर्वभाविनः, पश्चाद्भाविनश्चावस्थाविशेषाः संगृह्यन्ते । प्रतिहतोऽपि इत्यन्तेषु
अपिशब्देस्त्यागानुवादो द्योत्यते ।
धर्मान्तरनैरपेक्ष्यविशिष्टविधानमपि द्वयवक्ता इत्यनेन सूचितम् । न चैतावता
प्रपत्तेस्तदविनाभूताङ्गानां वा निवृत्तिः, शरणमहं प्रपद्ये इति पूर्वोक्तानुवादत्वेन प्रपत्युपश्लिष्टस्यैव
द्वयवचनस्यात्र विवक्षितत्वात् । येन केनाऽपि इत्यस्य तु 'आर्तो वा यदि वा दृप्तः ,
(रा.यु.१८-२८) 'मित्रभावेन संप्राप्तम् ), (रा.यु. १८-३) 'विभीषणो वा 'सुग्रीव' यदि वा रावणः
स्वयम्', (रा.यु.१८-३५) इत्याद्युक्ताधिकारिविशेषानियमे तात्पर्यम् । 'शरण्यस्य
प्रपन्नेष्वाद रातिशयादीदृ शव्याजमात्रानुभाषणम्, इति केचित् । एतेन
3जीव व्यापारनिरपेक्षमोक्षप्रदानादिपक्षश्च निरस्तः ।
1. नुताप - इ । 2. धर्मात्मा - अ ।
इतः परं त्वत्प्रवृत्त्यन्तरमनपेक्षितमित्याह केवलम् इति । मदीययैव- नान्यदीयता,
न सहकार्यन्तर सापेक्षयेति भावः । दयाऽत्र प्रपत्त्युल्लसिता रक्षणेच्छा ।
प्रपत्तिजनितप्रसादवैशिष्टये सत्यपि सहजदयायाः प्राधान्यमिह सूचितम् । कर्मणां
सुखदुःखजननशक्तिवत् तिरोधायकत्वादिशक्तिरपि निवृत्तेत्यभिप्रायेण निश्शेषशब्दः ।
तेन अशेषतः इत्युक्तस्यानूक्तिः । हेतुभूतपापादिसद्भावे पुनरपि विघ्न उत्पद्येतेति
तत्परिहारार्थमुक्तम् - सहेतुक इति । विघ्नाः पूर्वोक्ताः ।
-
3. जीवगत - अ ।