This page has been fully proofread once and needs a second look.

एतन्मूल- आध्यात्मिक- आधिभौतिक-आधिदैविक-
सुख-दुःख-तद्धेतु- तदितरोपेक्षणीय-विषयानुभव-ज्ञानसङ्कोचरूप-
76
 
-
 
-
 
-
 

श्रु. भा. सुखदुःखतद्धेतु शब्देन 'भोग्य'[^1] विषया विवक्षिताः । ज्ञानस्य

सङ्कोचः आत्मपरमात्मविषये । विषयानुभवरूपः, ज्ञानसङ्कोचरूपश्च विघ्नः ।
 
URUAUDUAURUAUDUNGRYAÜRÜAURUAUDUAÜRÜNÜDÜRÜSYAHSUA
 
शरणागतिगद्यम् -
 

र.र. प्रतिसंबन्धस्याभिमतप्रतिबन्धकत्वे द्वारं प्रपञ्चयति - एतन्मूल इति ।

दुःखस्य संसारोद्वेगजनकत्वमपि संभवति । सुखस्य तु संसाररुचि जनकत्वेन विघ्नत्वम्
अधिकमित्यभिप्रायेण पूर्वं सुखस्योक्तिः । दुःखवत् सुखमपि आध्यात्मिकादिभेदेन
त्रिविधम् । आध्यात्मिकम् - आत्माश्रित अचित्समुदायप्रधानहेतुकम् । तादृशं दुःखं
द्विविधम् - शारीरं मानसं चेति । तत्र शारीरम् '[^2 ]शिरो रोग : [^2] प्रतिश्याय:' (वि.पु.६-५-३)
इत्यादि- नोक्तम् । मानसम् 'कामक्रोधभयद्वेष' (वि.पु.६-५-५) इत्यादिना । आधि- भौतिकं
तु 'पशुपक्षिमनुष्याद्यैः' (वि.पु. ६-५-७) इत्यादिना । आधिदैविकं च 'शीतोष्ण-वात-
वर्षाम्बुवैद्युतादिसमुद्भवम्' (वि.पु. ६-५-८) इति ।
 
1. अभोग्य इ । 2. शिरो यक्ष्मा रोगः - अ ।
 
-
 
-
 

अत्र दुःखशब्दस्य पूर्वकालिकदुःखविषयत्वात् उत्तरत्र दुःखविघ्नगन्धरहित- त्वोक्तेः
उत्तरकालस्वास्थ्यपरत्वात् तितिक्षायां वा तात्पर्यादविरोधः । त्रिविधमप्येतत्
प्रत्येकमवान्तरहेतुस्वरूपवैषम्यादनन्तप्रकारमिति सूचयितुं तद्धेतुशब्दः । सुखदुःखहेतवश्च
स्वरूपतो बुद्धिविषयतयाऽपि परभक्त्यादि विघ्नाः । तदितर इति उपेक्षणीयविशेषणम् ।
उपेक्षणीयविषयश्च तृणादिः; तदनुभवोऽपि अब्रह्मात्मकानुभवरूपत्वेन पूर्वोक्त विपरीतज्ञान-
विशेषतया स्वरूपतः संस्कारतश्च प्राप्तविषयानुभवविरोधी । ज्ञानसङ्कोचः - तर्कोपदेश-
सहकृतैः शास्त्रैरपि परावरतत्त्वविषययथावस्थितज्ञान प्रसरा- भावः । मञ्चरणारविन्दयुगल
इति स्वयमुक्तिरिह न दोषाय, ईश्वरस्य यथाभूतार्थशंसिनः सर्वत्र स्वगुणाविष्क्रियादोष-
रहितत्वात्, तेनापि चरणयोः स्वातिश्रितरक्षणसाधनतया संप्रीतिविषयत्वेन स्तुत्यत्वोपपत्तेश्च ।
 

 
 
[^1]. अभोग्य इ ।
[^2]. शिरो यक्ष्मा रोगः- अ।