This page has been fully proofread once and needs a second look.

व्याख्याद्वयोपेतम्
 
75
 
एतत्कार्य-कारणभूतानादि - -विपरीताहङ्कार-विमूढात्मस्वभावोऽपि,

एतदुभय- कार्यकारणभूतानादि-विपरीत-वासना-सम्बद्धोऽपि,

एतदनुगुण-
प्रकृतिविशेष-सम्बद्धोऽपि,
 

श्रु.भा. - एतत् इति - बीजाङ्कुर' न्यायात्'[^1] कार्यकारणभावः । 'अथातो अहङ्कारादेशः'
(छां.उ.७-२५-१) ±इत्याद्युक्त [^2] अहङ्कार व्यावृत्यर्थ: विपरीताहङ्कारशब्द:,
विमूढात्मस्वभावः - तिरोहितशेषभावः । उभयशब्दः पापाज्ञानपरः ।
 
URGAGAGAGRUAURUAURYAURUAUDUKURUPURUAURUAURUAHAUA
 

र.र. - उक्तानां पापानां निदानं भक्तियोगादिप्रतिबन्धे द्वारभूतम् 'अहङ्कार विमूढात्मा'
(भ.गी.३-२७) इत्यादिषु प्रसिद्धं पूर्वं विपरीतज्ञानशब्दोपात्ते- ष्वन्यतममाह - एतत्कार्येति ।
कार्यस्याप्यहङ्कारस्यानादित्वं बीजाङ्कुर न्यायात् प्रवाहरूपेण भाव्यम् । 'अथातो
अहङ्कारादेशः' (छां.उ.७-२५-१) इत्याद्युक्तयथावस्थित अहङ्कारात् व्यवच्छेदार्थं
विपरीतशब्दः, अनहमर्थे अहंत्वाभिमानात्, स्वातन्त्र्यारोपाच्च विपरीतत्वम् । विमूढत्वम्
इह तिरोहित त्वम् । नित्यं प्रकाशमानस्याप्यात्मनस्तिरोहितत्वम् आधेयत्वविधेयत्व- शेषत्वादि-
धर्माणामनवभासादिति ज्ञापनाय स्वभावशब्दः ।
 

पापस्याहङ्कारस्य च प्रवाहनिर्वाहकम् अशेषत इति पूर्वत्र संक्षिप्तं विशद- मनुभाषते
एतदुभय इति । वासनाया अपि प्रवाहरूपेण अनादित्वम् । यथावस्थिततत्त्वहित पुरुषार्थ -
[^3] व्यावृत्त्यर्थाऽत्र विपरीतत्वोक्तिः । पापस्य वासना पापान्तरारम्भरुचिजनकनिग्रहांशः,
अहङ्कारस्य वासना भूयोभूय- स्तादृशभ्रमजनकबुद्धिसंस्कारः ।
 

भगवत्स्वरूपतिरोधानकरीम् इत्याद्युक्तमनुवदति - एतदनुगुण इति । एतत्
शब्देन पूर्वोक्तपापाहड्ङ्कारवासनारूपत्रितयपरामर्शः । अत्रापि कार्यत्वं कारणत्वं च
विवक्षितम् । सात्त्विकप्रकृतिव्यवच्छेदाय विशेष- शब्दः । संबद्धः - दृढबद्धः इत्यर्थः । एतच्च
मितगद्ये - 'दुर्विवेच' इति पदेन विवृतम् ।
 

 

 

 
[^
1. नयात् - इ । ]. नयात् - इ ।
[^
2]. इत्युक्त - इ ।
[^
3]. 'पुरुषार्थवासना' - अ ।