This page has been fully proofread once and needs a second look.

74
 
[भगवता स्वानुग्रहेण शरणागते चेतने प्रार्थितार्थनिर्वृत्तिदृढीकारः]
 

एवम्भूत-मत्कैङ्कर्य -प्राप्त्युपायतया -अवक्लृप्त-
समस्त-वस्तु - विहीनोऽपि,
अनन्त -

अनन्त-
तद्विरोधि-पापाक्रान्तोऽपि,
अनन्त-मदीया
अनन्त-मदपचार-युक्तोऽपि,
 
अनन्त-मद

अनन्त-मदीया
पचार- युक्तोऽपि,
अनन्तासह्यापचार-युक्तोपि,
 
-
 
-
 
-
 
शरणागतिगद्यम् -
 

श्रु. भा. -अथ भगवद्वाक्यमाह[^1] - एवम् इत्यादि । वक्ष्यमाणचरमश्लोक प्रथमपदार्थमाह
एवम्भूत इति । अवक्कॢप्तम् - विहितम् । समस्तवस्तु शब्देन कर्मज्ञानभक्तियोगाः, तदनुगुणाः
अमानित्वादिगुणाश्च विवक्षिताः । विहीन इति त्यागोऽनूदित इति भावः । परि
शब्दार्थमभिप्रयन्नाह - अनन्त इति । विरोधिभूयस्तया कालान्तरेऽपि तन्नैराश्यं हि तदर्थः ।
 
GRÜNÜRÜNÜRÜNÜRÜPÜRÜSÜDÜNÜRÜKÜPÜSÜRÜDÜRÜSÜSUSURUT
 

र.र. - अथैवमभ्यर्थितस्य भगवतस्तदभ्यनुज्ञादिविषयैः प्रपत्तिजनित प्रसाद परिवाहैः प्रतिवचनैः
प्रकृतौपयिकवक्ष्यमाणचरमश्लोकार्थोऽपि प्रति- बोध्यते । तथाहि अत्र प्रतिहतोऽपि इत्यन्तेन
अशक्तिपूर्त्या अनागतानन्त कालसमीक्षयाऽप्यदृष्टसन्तारोपायतां प्रकाशयता'[^2] अनन्यशरणः

इत्युक्तविस्तररूपेण प्रथमपादतात्पर्योक्तिः । येनकेनापि इत्यादिना त्वमित्यन्तेन द्वितीयपादोक्ता-
धिकारिकृत्यलाघवादिव्यञ्जनम् । केवलम् इत्यादिना तु 'अहं त्वा' (भ.गी.१८-६६) इति
वाक्याभिप्रेतानिष्टनिवृत्ति पूर्व- केष्ट प्राप्तिप्रकाशनम् । एवंभूतोऽसि इत्यादिभिः
प्रपन्नविषयशोकापनोदन वाक्याभिप्रेतप्रपञ्चनमिति विभाग : [^3
 
-
 
] ।
एवम्भूतमत्कैङ्कर्य इति; अत्र एवम्भूत इति कैङ्कर्यविशेषणम् । उपायतया

इत्यत्र गद्यान्तरोक्तक्रमेण साक्षात् परम्परया वेति भाव्यम् । अवक्कॢलृप्तम् - मन्नित्येच्छा-
नियमितमित्यर्थः, मदादेशात्मकै: शास्त्रैर्विहितमिति वा । समस्तवस्तुशब्देन
प्रस्तुतप्रपत्तिव्यतिरिक्ताः तत्त्वज्ञानपूर्वकाः कर्मयोगादय उपासनपर्यन्ता निवृत्तिधर्माः,
तदुपयुक्ताश्चामानित्वाद्यात्मगुणाः सङ्गृह्यन्ते । एतेन परिशब्दद्योतित सपरिकरत्यागव्यञ्जनम् ।
 

एवं पश्चादपि तदर्हता न सम्भवतीति नैराश्यरूपत्यागसिद्ध्यर्थमाह
अनन्त
अनन्त- तद्विरोधिपापाक्रान्त इति । उपासनादिविरोधित्वात् प्रवृत्तिधर्मोऽप्यत्र पाप- शब्देन
ङ्गृहीतः । अनन्तमदपचार इत्यादिभिः पूर्ववत् विशेषापचाराभि- भूतत्वस्य पृथगुक्तिः
एकैकवर्गस्य दुस्तरत्वद्योतनाय प्रत्येकमानन्त्य- निर्देशः
 

 
 
[^]
1. भगवद्वचः इ । - इ ।
[^
2]. प्रकाश्यता -आ।
[^
3]. विषयविभाग: अ ।
 
-अ ।