This page has not been fully proofread.

74
 
[भगवता स्वानुग्रहेण शरणागते चेतने प्रार्थितार्थनिर्वृत्तिदृढीकारः]
 
एवम्भूत-मत्कैङ्कर्य प्राप्त्युपायतया अवक्लृप्त-
समस्त-वस्तु - विहीनोऽपि,
अनन्त - तद्विरोधि-पापाक्रान्तोऽपि,
अनन्त-मदीयापचार-युक्तोऽपि,
 
अनन्त-मदपचार- युक्तोऽपि,
अनन्तासह्यापचार-युक्तोऽपि,
 
-
 
-
 
-
 
शरणागतिगद्यम् -
 
श्रु. भा. अथ भगवद्वाक्यमाह - एवम् इत्यादि । वक्ष्यमाणचरमश्लोकप्रथमपदार्थमाह
एवम्भूत इति । अवक्कॢप्तम् - विहितम् । समस्तवस्तुशब्देन कर्मज्ञानभक्तियोगाः, तदनुगुणाः
अमानित्वादिगुणाश्च विवक्षिताः । विहीन इति त्यागोऽनूदित इति भावः । परि
शब्दार्थमभिप्रयन्नाह - अनन्त इति । विरोधिभूयस्तया कालान्तरेऽपि तन्नैराश्यं हि तदर्थः ।
 
GRÜNÜRÜNÜRÜNÜRÜPÜRÜSÜDÜNÜRÜKÜPÜSÜRÜDÜRÜSÜSUSURUT
 
र.र. अथैवमभ्यर्थितस्य भगवतस्तदभ्यनुज्ञादिविषयैः प्रपत्तिजनितप्रसादपरिवाहैः प्रतिवचनैः
प्रकृतौपयिकवक्ष्यमाणचरमश्लोकार्थोऽपि प्रतिबोध्यते । तथाहि अत्र प्रतिहतोऽपि इत्यन्तेन
अशक्तिपूर्त्या अनागतानन्तकालसमीक्षयाऽप्यदृष्टसन्तारोपायतां प्रकाशयता' अनन्यशरणः
इत्युक्तविस्तररूपेण प्रथमपादतात्पर्योक्तिः । येनकेनापि इत्यादिना त्वमित्यन्तेन द्वितीयपादोक्ता-
धिकारिकृत्यलाघवादिव्यञ्जनम् । केवलम् इत्यादिना तु 'अहं त्वा' (भ.गी.१८-६६) इति
वाक्याभिप्रेतानिष्टनिवृत्तिपूर्वकेष्ट प्राप्तिप्रकाशनम् । एवंभूतोऽसि इत्यादिभिः
प्रपन्नविषयशोकापनोदनवाक्याभिप्रेतप्रपञ्चनमिति विभाग : 3 ।
 
-
 
एवम्भूतमत्कैङ्कर्य इति; अत्र एवम्भूत इति कैङ्कर्यविशेषणम् । उपायतया
इत्यत्र गद्यान्तरोक्तक्रमेण साक्षात् परम्परया वेति भाव्यम् । अवक्कॢप्तम् - मन्नित्येच्छा-
नियमितमित्यर्थः, मदादेशात्मकै: शास्त्रैर्विहितमिति वा । समस्तवस्तुशब्देन
प्रस्तुतप्रपत्तिव्यतिरिक्ताः तत्त्वज्ञानपूर्वकाः कर्मयोगादय उपासनपर्यन्ता निवृत्तिधर्माः,
तदुपयुक्ताश्चामानित्वाद्यात्मगुणाः सङ्गृह्यन्ते । एतेन परिशब्दद्योतित सपरिकरत्यागव्यञ्जनम् ।
 
एवं पश्चादपि तदर्हता न सम्भवतीति नैराश्यरूपत्यागसिद्ध्यर्थमाह
अनन्ततद्विरोधिपापाक्रान्त इति । उपासनादिविरोधित्वात् प्रवृत्तिधर्मोऽप्यत्र पापशब्देन
सगृहीतः । अनन्तमदपचार इत्यादिभिः पूर्ववत् विशेषापचाराभिभूतत्वस्य पृथगुक्तिः ।
एकैकवर्गस्य दुस्तरत्वद्योतनाय प्रत्येकमानन्त्यनिर्देशः ।
 
1. भगवद्वचः इ । 2. प्रकाश्यता आ। 3. विषयविभाग: अ ।