This page has been fully proofread once and needs a second look.

व्याख्याद्वयोपेतम्
 
इति स्थानत्रयोदित - -परभक्तियुक्तं मां कुरुष्व! ॥ १५ ॥
परभक्ति -

परभक्ति-
परज्ञान- परभक्तपरभक्त्येकस्वभावं मां कुरुष्व ! ॥ १६ ॥
 

[भगवति स्वस्य भक्तिज्ञानादिसहकृतनित्यकिङ्करत्वसम्पत्तिप्रार्थना]
 

परभक्ति-परज्ञान-परमभक्तिकृत- परिपूर्णानवरत-
नित्य - विशदतम- अनन्यप्रयोजनानवधिकातिशयप्रिय - -भगवदनुभवोऽहम्,
तथाविध - भगवदनुभव-जनितानवधिकातिशय - -प्रीतिकारित-
अशेषावस्थोचित-अशेष- शेषतैकरतिरूप -नित्यकिङ्करो भवानि ॥ १७ ॥
 
73
 
-
 

श्रु. भा.
 
-अथ बन्धनिवृत्तेः अनन्तरभाविनी: परभक्ति-परज्ञान-परमभक्तिः

प्रार्थयते -परभक्ति इति । अत एव हि एकस्वभावम् इत्युक्तम् । पूर्ववदर्थः
 
1
 

अथ भगवज्जनित[^1] प्रीतितत्कारितकैङ्कर्याणि प्रार्थयते पर इति । पूर्ववदर्थः ।
शेषतैकरतिरूपशब्दः बहुव्रीहिः ।
 
KAUNURUPURVAURYAGAUKURUPURUPURKAURUAÜRÜPÜRÜNÜRÜT
 

र.र. - अथ शरीरपातसमयभाविनो बुद्ध्याकारान् अभ्यर्थयते - परभक्ति इति ।
अथवा, मुक्तिदशाभाविनां परभक्त्यादीनामिदमपेक्षणम् । एक- स्वभावत्वोक्तिर्हि अत्रत्य
परभक्त्यादिव्यवच्छेदार्था । उक्तानामेव तत्रत्य- परभक्त्यादीनां सादरानुवादेन कैङ्कर्यपर्यन्ततां
याचते - पर इति । अत्र त्वदिति वक्तव्ये भगवत् शब्दः अनुभाव्यपौष्कल्यस्फुटीकरणार्थः ।

किङ्करविशेषणे शेषतैकरतिरूपशब्दे शेषतैकरतिरेव रूपं निरूपकं यस्येति भाव्यम् ।
 

 

भवानि इति प्रार्थना । त्वत्किङ्करभावात् पूर्वमसत्कल्पोऽहं इतिच[^2 इति च] सूच्यते ।
एवं द्वयार्थो व्याख्यातः ॥
 
1. भगवदनुभवजनित - इ ।
 

सर्वज्ञेऽपि स्वतो देवे याञ्चाविज्ञापनादिभिः ।

तत्तदिष्टप्रदित्सात्मा प्रीतिरेव प्रसाध्यते

तदेव चोदनोपज्ञम् अपूर्वं तत्त्ववेदिनाम् ।

आराध्येन्द्राद्यपायेऽपि फलदानाय तिष्ठति ॥
 

 
 
 
[^1]. भगवदनुभवजनित - इ ।
[^
2]. इति अ ।
 
- अ ।