This page has not been fully proofread.

व्याख्याद्वयोपेतम्
 
इति स्थानत्रयोदित - परभक्तियुक्तं मां कुरुष्व! ॥ १५ ॥
परभक्ति - परज्ञान- परभक्तयेकस्वभावं मां कुरुष्व ! ॥ १६ ॥
 
[भगवति स्वस्य भक्तिज्ञानादिसहकृतनित्यकिङ्करत्वसम्पत्तिप्रार्थना]
 
परभक्ति-परज्ञान-परमभक्तिकृत- परिपूर्णानवरत-
नित्य - विशदतम- अनन्यप्रयोजनानवधिकातिशयप्रिय - भगवदनुभवोऽहम्,
तथाविध - भगवदनुभव-जनितानवधिकातिशय - प्रीतिकारित-
अशेषावस्थोचित-अशेष- शेषतैकरतिरूप नित्यकिङ्करो भवानि ॥ १७ ॥
 
73
 
-
 
श्रु. भा.
 
अथ बन्धनिवृत्तेः अनन्तरभाविनी: परभक्ति-परज्ञान-परमभक्तिः
प्रार्थयते परभक्ति इति । अत एव हि एकस्वभावम् इत्युक्तम् । पूर्ववदर्थः ।
 
1
 
अथ भगवज्जनित प्रीतितत्कारितकैङ्कर्याणि प्रार्थयते पर इति । पूर्ववदर्थः ।
शेषतैकरतिरूपशब्दः बहुव्रीहिः ।
 
KAUNURUPURVAURYAGAUKURUPURUPURKAURUAÜRÜPÜRÜNÜRÜT
 
र.र. - अथ शरीरपातसमयभाविनो बुद्ध्याकारान् अभ्यर्थयते परभक्ति इति ।
अथवा, मुक्तिदशाभाविनां परभक्त्यादीनामिदमपेक्षणम् । एकस्वभावत्वोक्तिर्हि अत्रत्य
परभक्त्यादिव्यवच्छेदार्था । उक्तानामेव तत्रत्यपरभक्त्यादीनां सादरानुवादेन कैङ्कर्यपर्यन्ततां
याचते - पर इति । अत्र त्वदिति वक्तव्ये भगवत् शब्दः अनुभाव्यपौष्कल्यस्फुटीकरणार्थः ।
किङ्करविशेषणे शेषतैकरतिरूपशब्दे शेषतैकरतिरेव रूपं निरूपकं यस्येति भाव्यम् ।
 

 
भवानि इति प्रार्थना । त्वत्किङ्करभावात् पूर्वमसत्कल्पोऽहं 2 इति च सूच्यते ।
एवं द्वयार्थो व्याख्यातः ॥
 
1. भगवदनुभवजनित - इ ।
 
सर्वज्ञेऽपि स्वतो देवे याञ्चाविज्ञापनादिभिः ।
तत्तदिष्टप्रदित्सात्मा प्रीतिरेव प्रसाध्यते ।
तदेव चोदनोपज्ञम् अपूर्वं तत्त्ववेदिनाम् ।
आराध्येन्द्राद्यपायेऽपि फलदानाय तिष्ठति ॥
 
2. इति अ ।