This page has been fully proofread once and needs a second look.

72
 
शरणागतिगद्यम् -
 
बहूनां जन्मनामन्ते ज्ञानवान् मां प्रपद्यते ।
 

वासुदेवः सर्वमिति स महात्मा सुदुर्लभः[^1] ॥ (भ.गी. ७-१९)
इति

इति[^2] श्
लोकत्रयोदित - -ज्ञानिनं मां कुरुष्व ! ॥ १४ ॥
 

[ स्वस्य गीतोक्त भक्तिज्ञानसम्पन्नत्वापादनप्रार्थना]
 

'पुरुषः स परः पार्थ! भक्त्या लभ्यस्त्वनन्यया' । (भ.गी. ८ - २२ )

'भक्त्या त्वनन्यया शक्यः (भ.गी. ११-५४)

'मद्भक्तिं लभते पराम्' (भ.गी. १८-५४)
 
RRRRRRR
 

श्रु. भा. - परभक्तिस्थाने प्रपदनम् । परज्ञान परमभक्ती देहसम्बन्ध वेलायाम्
उपासकस्य उपायकोटिनिविष्टे । प्रपनस्य तु उभय कोटि । अतः परज्ञानं प्रार्थितं
 
तेषाम् इत्यादिना । अथ परमभक्तिप्रार्थनम् - पुरुषः स पर इत्यादिना । व्यवहितत्वात्
स्थानत्रय इत्युक्तं, न तु श्लोकत्रय इति ।
 
BRUARYAVRUAÜRÜNÜDÜRÜDÜRÜAVAGRYAÜRÜNÜRÜNÜDÜAKSÜT
 

र.र. - जन्मनाम् - पुण्यजन्मनाम् । ज्ञानवान् - पूर्वोक्तज्ञानवान् । 'वासुदेवः सर्वमिति
प्रपद्यते' इत्यन्वयः । सर्वम् - प्राप्यप्रापकादि । 'रामस्य व्यवसा- यज्ञः' (रा. सुं.१६-४)
इत्यादिनिदर्शितज्ञानविशेषवत्वात् महात्मत्वोक्ति: । 'महामनाः' (भ.गी.भा.७-१९)
इति भाष्यम् । सुदुर्लभः - मत्तः प्रयोजनान्त- रार्थिन आर्तादयोऽपि दुर्लभाः । अयं तु
कर्मवश्यमध्ये भक्तलाभार्थिना मया देशिकार्थिभिश्चान्यैः सुदुर्लभः लब्धश्चेदयमलभ्यलाभ
इति भावः । उक्तं हि श्रीपौष्करे -
 
)
 

'दुर्लभा भगवद्योगभाविनो भुवि मानवाः ।
 

तद्दर्शनात् तदालापात् सुलभं शाश्वतं पदम्' ॥ (पौ.सं.) इति ।

माम् - 'अज्ञो जन्तुरनीशोऽयम्' (म.भा. शां. १२-३६) इत्युक्तेषु मूर्धाभिषिक्तम् ।
- क्तम् । श्लोकत्रयोदितज्ञानिनं कुरुष्व - क्रियाफलं त्वद्गामीत्यात्म नेपदेन व्यज्यते । अव्यवहितत्वादिह
श्लोकत्रय इत्युक्तम् । परभक्ति- श्लोकानां भिन्नप्रकरणस्थतया स्थानत्रय इत्युक्तम् ।
माम्- 'या प्रीतिरविवेकानाम्' (वि.पु. १-१९-२०) इत्युक्तेषु बाह्यविषयसक्तेष्वग्रगण्यम् ॥
 

 
 
 
[^
1]. 'सुदुर्लभः' इति अत्र नास्ति - इ ।
[^
2]. इत्यादि - इ ।