This page has not been fully proofread.

व्याख्याद्वयोपेतम्
 
71
 
[ स्वस्य गीतोक्त - परज्ञानप्रार्थना]
 
तेषां ज्ञानी नित्ययुक्त एकभक्तिविशिष्यते ।
 
प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ॥ (भ.गी. ७-१७)
उदारा: सर्व एवैते ज्ञानी त्वात्मैव मे मतम् ।
 
आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम् ॥ (भ.गी. ७-१८)
 
श्रु. भा. - अथ चतुर्थ्यर्थम् इष्टप्राप्तिं प्रार्थयते तेषाम् इत्यादिना ।
 
BRUA%AXXXRE®&xxx¨RUGRURBRUAGRUABRURBRURUKUR
 
र.र. - अथ निर्वेदमान्द्यात् ईषद्विलम्बक्षमाणामत्रत्यविशदज्ञानभक्तयोरपि कैङ्कर्योपयोगितया
चतुर्थ्यभिप्रेतफलकोटिघटितत्वात् स्वयंप्रयोजनं तदुभयं तेषाम् इत्यादिना प्रार्थ्यते ।
'तत्पादभक्तिज्ञानाभ्यां फलमन्यत्कदाचन ।
 
न याचेत् 'पुरुषो' विष्णुं याचनान्नश्यति ध्रुवम्' ॥ ( पाञ्चरात्रम्)
इति तावन्माप्रार्थना ह्यनुज्ञाता । अत्र परभक्तिवचनं तदनन्तरभाविपरज्ञान-
परमभक्त्योरप्युपलक्षणम् । तच्च प्रतिवचनभागे व्यञ्जयिष्यते । ज्ञानी- 'प्रकृतिं विद्धि
मे पराम्' (भ.गी.७-५) इत्यादिप्रतिपादितभगवच्छेषतैकरसात्मस्वरूपवित् भगवन्तमेव
परमप्राप्यं मन्वानः । नित्ययुक्त: ऐश्वर्याद्यर्थिनां स्वाभिलषितप्राप्तौ सिद्धायां भगवता योगो

निवर्तते, ज्ञानिनस्तु च तथेति भावः । एकभक्तिः - न तु प्रयोजनान्तरविभक्तभक्तिरित्यर्थः ।
तु
 
-
 
1. प्रणतो- अ ।
 
एतदुभयं ज्ञानी विशिष्यत इत्यस्य हेतुः । अत्यर्थम् - अत्यभिधेयम्; सर्वज्ञेन
सर्वशक्तिना मयाऽपि दुर्वचमिति भावः । स च मम प्रियः इत्यत्रापि अत्यर्थम्
इत्येतदनुषज्यते । यद्वा, स्वप्रीत्यपेक्षया स्वभक्तप्रीतेः प्रकर्षोक्त्या स्तुतिः ।
 
आत्मैव - सर्वान्तरात्मनो ममाप्यन्तरात्मैव । नन्विदं प्रमाणविरुद्धमित्यत्राह मे
मतम् इति । प्रकृष्टप्रीतिविषयत्वेनातिवादान्न विरोधः । तथाऽत्यादरे हेतुमाह - आस्थित इति ।
युक्तात्मा - मद्विरहस्यातिदुःसहतया मयि नित्ययोगप्रवृत्तमनाः । अनुत्तमां गतिम् - परमप्राप्यम् ।