This page has not been fully proofread.

70
 
शरणागतिगद्यम् -
 
मायाम् ; दासभूतः,
 
'शरणागतोऽस्मि; तवाऽस्मि दास' इति वक्तारं मां तारय ॥ १३ ॥
 
श्रु.भा.
 
दासभूतं - माम् इति सम्बन्धः । शरणागतोऽस्मि' तवास्मि इति
पूर्वोत्तरखण्डार्थः । वक्तारम् - 'भवशरणमितीरयन्ति' (वि.पु. ३-७-३३) इति हि उच्यते ।
 
KAÜAURUAÜRÜPÜRÜZGRUAURUPURUAUPUNURUNURGAURYAGTUT
 
र.र. - क्वचित्तु सत्वरजस्तमः शब्दानां द्रव्यपर्यन्तः प्रयोग: 'तद्रुणसारत्वात्तु तद्व्यपदेशः '
(ब्र.सू. २-३-३९) इति न्यायेन नेतव्यः । एवमनन्तैर्विभागैर्व्यापारैः परिणामैः गुणैश्च प्रख्यातमाश्चर्यत्वं
समाख्यविशेषेण आह - मायाम् इति । मायां मां तारय इति द्विकर्मकतयाऽन्वयः ।
 
दासभूत इत्यादिभिर्मूलमन्त्रपदत्रयार्थः सूच्यते । 'दासभूताः स्वतः सर्वे,
(मं.रा.स्तो.१२) 'आत्मदास्यं हरेः स्वाम्यम्' (वि.त.) इत्यादिप्रसिद्धं स्वभावतो दासत्वं
च्विप्रत्ययाभावेन व्यज्यते । द्वयेऽपि नारशब्दवाच्यानां जीवानां तात्पर्यवृत्त्या दासत्वं
ग्राह्यम् । दूरं पलायितेऽपि मयि त्वत्सम्बन्धस्तावत् दुस्त्यजः । दास्यप्रतिबोधश्च मे
संप्रति जात इति भावः । शरणागतोऽस्मि तवास्मि दासः इति पूर्वोत्तरखण्डार्थनिष्ठत्वं
समुच्चित्योक्तम्
 

 
'स्वरूपभरलाभेषु तवैव न ममेति यत् ।
प्रपन्नस्यानुसन्धानं सारं तदिह दर्शितम्' ॥
 
अस्मि इति प्रार्थनाभिप्रायम् । दासोऽस्मि - दासवृत्तिपरः स्यामित्यर्थः ।
अन्यथा तु दासभूत इत्युक्तस्यैव पुनर्वचनमात्रं स्यात् । शरणागतोऽस्मि तवास्मि दासः
इति निर्देशौ प्रार्थनात्मनिक्षेपपरौ, इति केचित् । आर्तो वा दृप्तो वा द्वयवक्ताऽहं तव
दयनीय इत्यभिप्रायेणाह - इति वक्तारम् इति । यद्यप्यत्र फलप्रार्थनार्थं प्रपत्तिकर्तृत्वानुवाद एव
युक्तः, तथाऽपि तद्वचनकर्तृत्वानुवादः 'भव शरणमितीरयन्ति' (वि.पु. ३-७-३३) इत्याद्यभिप्रेत-
वचनप्राशस्त्यादिव्यञ्जनार्थः । माम् - 'स्वयं मृत्पिण्डभूतस्य' (म.भा. शां. २९४-१९) इत्यादि-
प्रसिद्धं स्वरक्षणासमर्थम् । त्रिगुणद्रव्यस्य नित्यतया नाशाभावात् तारय इत्युक्तम् । एतेन,
'दुरत्यया' (भ.गी.७-११) इत्युक्तं स्वयत्नेन दुस्तरत्वम्, 'मामेव ये प्रपद्यन्ते' (भ.गी.७-११)
इत्यादिनाऽभिप्रेतं पराधीनतरणं च गम्यते । एवं नमः शब्दे निवर्तनीयतयाऽभिप्रेतस्य
पापस्य भ्रमस्य प्रकृतिसंबन्धस्य च मिथः कार्यत्वं कारणत्वं च यथायोगं द्रष्टव्यम् ॥
 
1. दासभूतोऽस्मि - इ ।