This page has been fully proofread once and needs a second look.

व्याख्याद्वयोपेतम्
 
69
 
भगवत्स्वरूपतिरोधानकरीरीं, विपरीतज्ञानजननीं,

स्वविषयायाश्च भोग्यबुद्धेर्जननीं, देहेन्द्रियत्वेन-

भोग्यत्वेन - -सूक्ष्मरूपेण चावस्थिताम्, दैवीं, गुणमयीं,
 

श्रु. भा. - 'गुणमाया समावृतः' (जि. स्तो. १-३) इत्यस्य अर्थमाह - भगवत्स्व रूप
इति । विपरीतज्ञानं - देहे अहं धीः । भोग्यभोगोपकरण रूपत्व[^1] माह देह इत्यादिना ।
दैवीं - ±त्वल्लीलार्थम्
 
GAUNGRYAURUAÜRÜAURUAHRUNGRYAGAYAÜRÜNÜRUAURUAURUA
 
[^2] ।
र.र. - तत्र च, 'गुणमायासमावृतः' (जि. स्तो. १-३) इत्यादिप्रसिद्धंप्रतिकूल प्रवृत्तित्रयं
भगवत्स्वरूप इत्यादिभिराह । भगवत्स्वरूपतिरोधानं नाम क्षेत्रज्ञानां भगवत्स्वरूपविषयज्ञान-
प्रसरनिरोधः । तथा च अत्यन्ततिरोधानाद सत्वबुद्धिम्, सामान्यतो विदितेऽपि भगवति
[^3] सर्वाश्रयत्वादिधर्म- तिरोधानादरत्वादिबुद्धिम्, तदन्येषु स्वनिष्ठत्वादिबुद्धिं च करोतीत्याह -

विपरीतज्ञानजननीम् इति । इदं च जीवस्वरूपतिरोधानतन्मूलदेहात्म- भ्रमादेः उपलक्षणम् ।
एवं तत्त्वत्रयतिरोधानफलभूतं विपरीतज्ञानान्तरमाह- स्वविषयाया इति । प्रकाशमानेषु
वस्तुषु तिरोधानं नाम तत्तद्भेदकधर्मग्रहण निवारणम् । इदमेव हि सर्वत्र भ्रान्तेनिंर्निदानम् ।
उक्तस्या* प्याकार[^4] त्रयस्य हेतुभूतमवस्थाचतुष्टयं देह इत्यादिभिरुच्यते । देहेन्द्रियत्वेन

भोगायतनतया भोगोपकरणतया च । भोग्यत्वेन - शब्दादिगुणविशिष्टभूत पञ्चकरूपत्वेन ।
सूक्ष्मरूपेण - देहादिपरिणामरहितांशेन । सेयं प्रकृति रिदानीं चतुर्भिरपि अंशैरपकरोति ।
प्रलयदशायां तु सूक्ष्मरूपेणैव तिरोधानमात्रं करोतीति व्यवस्था 'देहयोगाद्वा सोऽपि '
(ब्र. सू. ३-२-५) इति सूत्रभाष्ये' द्रष्टव्या ।
 

 
1. रूपइ ।
 

ईदृश्याः प्रकृतेः दुरत्ययत्वं स्वतन्त्रलीलाप्रवृत्ततयेति 'दैवी ह्येषा गुणमयी' (भ.गी. ७-१४)
इत्यादिना त्वयैव गीतमिति सूचयति दैवीम् इति । तिरोधानादिहेतुभूतैरवस्थाचतुष्टयानुवृत्तेः
बन्धहेतुभिः सत्त्वादिगुणैः प्रचुरतामाह - गुणमयीम् इति । 'सत्वादिगुणसमुदाय एव प्रकृतिः
,' इति सांख्यपक्षस्तु, 'गुणाः प्रकृतिसंभवा : (भ.गी. १४-५) 'प्रकृतेर्गुणसंमूढाः' (भ.गी.३-२९)
इत्यादिव्यधिकरणप्रयोगबलात् निरस्तः ।
 

 
 
[^1]. रूप -इ ।
[^
2]. त्वल्लीलार्थाम् - इ ।
[^
3]. भगवतः - अ ।
 

[^
4]. पकार - आ ।
 
1
 
>