This page has not been fully proofread.

व्याख्याद्वयोपेतम्
 
69
 
भगवत्स्वरूपतिरोधानकरी, विपरीतज्ञानजननीं,
स्वविषयायाश्च भोग्यबुद्धेर्जननीं, देहेन्द्रियत्वेन-
भोग्यत्वेन - सूक्ष्मरूपेण चावस्थिताम् दैवीं, गुणमयीं,
 
श्रु. भा. - 'गुणमाया समावृतः' (जि. स्तो. १-३) इत्यस्य अर्थमाह - भगवत्स्वरूप
इति । विपरीतज्ञानं - देहे अहं धीः । भोग्यभोगोपकरण रूपत्व माह देह इत्यादिना ।
दैवीं - ±त्वल्लीलार्थम् ।
 
GAUNGRYAURUAÜRÜAURUAHRUNGRYAGAYAÜRÜNÜRUAURUAURUA
 
र.र. - तत्र च, 'गुणमायासमावृतः' (जि. स्तो. १-३) इत्यादिप्रसिद्धंप्रतिकूलप्रवृत्तित्रयं
भगवत्स्वरूप इत्यादिभिराह । भगवत्स्वरूपतिरोधानं नाम क्षेत्रज्ञानां भगवत्स्वरूपविषयज्ञान-
प्रसरनिरोधः । तथा च अत्यन्ततिरोधानादसत्वबुद्धिम्, सामान्यतो विदितेऽपि भगवति
सर्वाश्रयत्वादिधर्मतिरोधानादरत्वादिबुद्धिम्, तदन्येषु स्वनिष्ठत्वादिबुद्धिं च करोतीत्याह -
विपरीतज्ञानजननीम् इति । इदं च जीवस्वरूपतिरोधानतन्मूलदेहात्मभ्रमादेः उपलक्षणम् ।
एवं तत्त्वत्रयतिरोधानफलभूतं विपरीतज्ञानान्तरमाह- स्वविषयाया इति । प्रकाशमानेषु
वस्तुषु तिरोधानं नाम तत्तद्भेदकधर्मग्रहणनिवारणम् । इदमेव हि सर्वत्र भ्रान्तेनिंदानम् ।
उक्तस्या* प्याकार त्रयस्य हेतुभूतमवस्थाचतुष्टयं देह इत्यादिभिरुच्यते । देहेन्द्रियत्वेन
भोगायतनतया भोगोपकरणतया च । भोग्यत्वेन - शब्दादिगुणविशिष्टभूतपञ्चकरूपत्वेन ।
सूक्ष्मरूपेण - देहादिपरिणामरहितांशेन । सेयं प्रकृतिरिदानीं चतुर्भिरपि अंशैरपकरोति ।
प्रलयदशायां तु सूक्ष्मरूपेणैव तिरोधानमात्रं करोतीति व्यवस्था 'देहयोगाद्वा सोऽपि '
(ब्र. सू. ३-२-५) इति सूत्रभाष्ये' द्रष्टव्या ।
 

 
1. रूपइ ।
 
ईदृश्याः प्रकृतेः दुरत्ययत्वं स्वतन्त्रलीलाप्रवृत्ततयेति 'दैवी ह्येषा गुणमयी' (भ.गी. ७-१४)
इत्यादिना त्वयैव गीतमिति सूचयति दैवीम् इति । तिरोधानादिहेतुभूतैरवस्थाचतुष्टयानुवृत्तेः
बन्धहेतुभिः सत्त्वादिगुणैः प्रचुरतामाह - गुणमयीम् इति । 'सत्वादिगुणसमुदाय एव प्रकृतिः
इति सांख्यपक्षस्तु, 'गुणाः प्रकृतिसंभवा : (भ.गी. १९४-५) 'प्रकृतेर्गुणसंमूढाः' (भ.गी.३-२९)
इत्यादिव्यधिकरणप्रयोगबलात् निरस्तः ।
 
2. त्वल्लीलार्थाम् - इ । 3. भगवतः अ ।
 
4. पकार आ ।
 
1
 
>