2023-04-07 05:36:04 by ambuda-bot
This page has not been fully proofread.
68
[ तत्त्वतिरोधायकस्वभावमायातारणप्रार्थना]
मदीयानादिकर्मप्रवाहप्रवृत्ताम्,
शरणागतिगद्यम्
श्रु. भा. - अथ प्रकृतिः, मदीय इति । बीजांकुरन्यायात् अनादिता ।
USUÜNÜRÜXÜSUAURUPURGAWAUAKRÜAUSYAWRUAÜSÜKÜRÜNÜDÜR
र.र. - इह यथाधिकारं यथाचोदितमनुतिष्ठितानमपि संसारहेतुधर्माणामभिचाराणामिव
अनर्थपर्यवसायितया मुमुक्ष्वपेक्षया पापत्वोक्तेः, स्वर्गादिहेतुभूतस्वतन्त्रसंकल्पेऽपि
निग्रहहेतुत्वबुद्ध्या काम्यक्षमाप्रार्थनं युक्तम् । यद्यप्येवं पूर्वकृतेषु काम्येषु गतिः, तथाऽपि
वर्तमानवर्तिष्यमाणकाम्यक्षमार्थिनां स्वयं तदारम्भ एव न संभवतीति कथं तत्क्षमाप्रार्थनम्?
इत्थम् । अज्ञातयादृच्छिकसुकृतन्यायात् सुहृज्जनबुद्ध्या वा संभवत्सु नेदं चोद्यम् ।
स्वबुद्धिपूर्वमपि वर्तमानेषु काम्येषु मध्ये निर्विण्णानामपि प्रक्रान्तसमापनमन्तरा लब्धवृष्टेः
कारीरीशेषसमापनन्यायेन स्यात् । तत्र पश्चिमांशस्य आज्ञासिद्धत्वान्न काम्यत्वदोषः । पूर्वांशस्य
तु क्षुद्रफलकामनामूलस्य तत्फलजनकत्वाभावेऽपि तादृशवासनाजनकत्वसंभवात्
कर्मयोगस्यैव 'नेहाभिक्रमनाशोऽस्ति' (भ.गी. २-४०) इति न्यायेन केषांचित् कर्मणाम्
असमाप्तानां कृतांशस्य विलम्बकारिसाधनान्तरपर्यवसितफलजनकत्वात् तत्क्षान्तिः प्रार्थनीया ।
अत्र पूर्वापरांशयोरधिकारभेदेऽप्यासमाप्तेरैककर्म्यात् वर्तमानव्यपदेशोऽपि युक्तः ।
उत्तरकालेऽपि केनचिद्धेतुना निर्वेदविच्छेदात् नित्यत्वभ्रमात् स्वप्नदोषाद्वा काम्यं संभाव्यते ।
तस्यानुत्पन्नस्यापि क्षमावेक्षणं शीघ्रं स्वोचितप्रायश्चितप्रेरणार्थम्, सौभर्यादिन्यायेन क्रमेण
वैराग्यजननार्थं वा । उक्तं हि प्रपन्नमधिकृत्यैव
'अथोपायप्रसक्तोऽपि भुक्त्वा भोगान् अनामयान् ।
अन्ते विरक्तिमासाद्य विशते वैष्णवं पदम्' ॥ (ल.तं.१७-१०३) इति ।
1. अन्योन्याश्रयादि- अ ।
मदीय इति । ईश्वरस्य
एवं कर्मनिवृत्तिः प्रार्थिता; अथ कर्महेतुप्रकृतिसंबन्धनिवृत्तिः कर्मनिवृत्त्यैव
भवन्त्यपि सर्वेश्वरबुद्धिविशेषाधीनेति ज्ञापयितुमभ्यर्थ्यते
वैषम्यनैर्घृण्यपरिहारार्थं मदीय इत्युक्तम् । अन्योन्याश्रय निवारणाय बीजाङ्कुरादि-
न्यायमभिप्रेत्याह- अनादिकर्मप्रवाहप्रवृत्ताम् इति । प्रकृतिस्वरूपस्य पुरुषवत् अनादित्वात्
तत्प्रवृत्तिमात्रे कर्महेतुकत्वमुक्तम् ।