This page has been fully proofread twice.

गोविन्द-दामोदर-स्तोत्र
 
( १० )
अङ्काधिरूढं शिशुगोपगूढं
स्तनं धयन्तं कमलैककान्तम् ।
सम्बोधयामास मुदा यशोदा
गोविन्द दामोदर माधवेति ॥
 
( ११ )
क्रीडन्तमन्तर्व्रजमात्मजं स्वं
समं वयस्यैः पशुपालबालैः ।
प्रेम्णा यशोदा प्रजुहाव कृष्णं
गोबिन्द दामोदर माधवेति ॥
 
( १२ )
यशोदया गाढमुलूखलेन
गोकण्ठपाशेन निबध्यमानः ।
रुरोद मन्दं नवनीतभोजी
गोविन्द दामोदर माधवेति ॥
 
( १३ )
निजाङ्गने कङ्कणकेलिलोलं
गोपी गृहीत्वा नवनीतगोलम् ।
आमर्दयत्पाणितलेन नेत्रे
गोविन्द दामोदर माधवेति ॥
 
( १४ )
गृहे गृहे गोपवधूकदम्बा:
सर्वे मिलित्वा समवाययोगे ।
पुण्यानि नामानि पठन्ति नित्यं
गोविन्द दामोदर माधवेति ॥