This page has been fully proofread once and needs a second look.

गोविन्द-दामोदर-स्तोत्र
 
( ५ )
काचित्कराम्भोजपुटे निषण्णं
क्रीडाशुकं किंशुकरक्ततुण्डम् ।
अध्यापयामास सरोरुहाक्षी
गोविन्द दामोदर माधवेति ॥
 
( ६ )
गृहे गृहे गोपवधूसमूहः
प्रतिक्षणं पिञ्जरसारिकाणाम् ।
स्खलद्गिरं बाचयितुं प्रवृत्तो
गोविन्द दामोदर माधवेति ॥
 
( ७ )
पर्थ्यङ्किकाभाजमलं कुमारं
प्रस्वापयन्त्योऽखिलगोपकन्याः ।
जगुः प्रबन्धं स्वरतालबन्धं
गोविन्द दामोदर माधवेति ॥
 
(८)
रामानुजं वीक्षणकेलिलोलं
गोपी गृहीत्वा नवनीतगोलम् ।
आबालकं बालकमाजुहाव
गोविन्द दामोदर माधवेति ॥
 
( ९ )
विचित्रवर्णाभरणाभिरामे-
ऽभिधेहि वक्त्राम्बुजराजहंसि ।
सदा मदीये रसनेऽग्ररङ्गे
गोविन्द दामोदर माघवेति ॥