This page has been fully proofread once and needs a second look.


गणेशाथर्वशीर्षम् ।
 
इति स्मृतेः । ननु–उपपुराणेषु महावाक्यप्रतिपाद्यगणेशवर्णनमयु-
क्तम् । उपवेदवत्कनिष्ठसंज्ञामयत्वात्–इति चेन्न । तत्रोपपदस्य श्रेष्ठ-
त्वप्रतिपादकत्वात् । इन्द्रोपेन्द्रनिदर्शनत्वात् [^]१, उपदेशप्रकरणादौ कनि-
ष्ठान्तश्रेष्ठत्वप्रतिपादकत्वात्, पूर्वमीमांसोत्तरमीमांसावदरण्यवद्ग्रहण-
त्वाच्च । तथा च गणेशगीतायाम्–
" अष्टादशपुराणोक्तममृतं प्राशितं मया ।
ततोऽतिरसवत्पातुमिच्छाम्यमृतमुत्तमम् " ॥
 
इत्यादिस्मृतिभ्यः ।
देवादिगणानां महत्तत्त्वादितत्त्वगणानां निर्गुणसगुणब्रह्मगणानां च
पतिर्गणपतिः । सर्वादिपूज्यसर्वपूज्यत्वात् । <flag>गणसमूहे</flag> इति धात्वर्थात्–न
चैवम्–अशुभसमारम्भे गणेशपूजनं न दृष्टम् । प्राणप्रयाणसाम्यपितृय-
ज्ञादावप्रसिद्धत्वात्–इति वाच्यम् । गयास्थगणेशपादस्य पितृमुक्तिप्रद-
त्वात्, वेदोक्तसत्कर्मारम्भे पितृयज्ञसिद्धिप्रदत्वात् वेदोक्तपितृयज्ञारम्भे
गणेशपूजननिषेधाभावात्, तद्वत्प्राणप्रयाणसमये कथितत्वाच्च । " ज्येष्ठ-
राजम् " इति श्रुतेः पितृणामपि ज्येष्ठत्वात् । तथा च गाणेशे
त्रिपुरवधकाले शिववाक्यं–
" शैवैस्त्वदीयैरुत वैष्णवैश्च शाक्तैश्च सौरैरपि सर्वकार्ये ।
शुभाशुभे लौकिकवैदिके च त्वमर्चनीयः प्रथमं प्रयत्नात् " ॥
इति । गणेशगीतायामपि–
 
" यः स्मृत्वा त्यजति प्राणमन्ते मां श्रद्धयाऽन्वितः ।
स यात्यपुनरावृत्तिं प्रसादान्मम भूभुज 11" ॥
" ॐ गणेशो वै ब्रह्म । तद्विद्याद्यदिदं किंच ।
सर्वेवं भूतं भव्यं जायमानं च । तत्सर्वमित्याचक्षते ।
अस्मान्नातः परं किंचित् । यो वेद स वेद ब्रह्म ।
ब्रह्मैवाऽऽप्नोति तत्सर्वमित्याचक्षते " ।
---------------------------------------------------------------
१ 'उप' पदसहित इन्द्रः उपेन्द्रो विष्णुः । स यथा उपोपसर्गसहितेन्द्र शब्द-
वाच्योऽपि इन्द्रादुत्तमः, तथा उपपुराणं पुराणादुत्तममिति वाक्यार्थः । वस्तुतस्तु
उपेन्द्रः इत्यत्र उपोपसर्गस्य सामीप्यार्थत्वात् अन्यत्र कुत्रापि तस्योत्तमार्थाभिधा-
यित्वप्रदर्शनाभावादिदं व्याख्यानमसंगतमेवेति प्रतिभाति ।