This page has been fully proofread once and needs a second look.


गणेशाथर्वशीर्षम् ।
 
इति स्मृतेः । ननु-उपपुराणेषु महावाक्यप्रतिपाद्यगणेशवर्णनमयु-
क्तम् । उपवेदवत्कनिष्ठसंज्ञामयत्वात् - इति चेन्न । तत्रोपपदस्य श्रेष्ठ-
त्वप्रतिपादकत्वात् । इन्द्रोपेन्द्रनिदर्शनत्वात्, उपदेशप्रकरणादौ कनि-
ष्ठान्त श्रेष्ठत्व प्रतिपादकत्वात्, पूर्वमीमांसोत्तरमीमांसावदरण्यवद्ग्रहण-
त्वाच्च । तथा च गणेशगीतायाम्-
" अष्टादशपुराणोक्तममृतं प्राशितं मया ।
ततोऽतिरसवत्पातुमिच्छाम्यमृतमुत्तमम् " ॥
 
315
 
इत्यादिस्मृतिभ्यः ।

देवादिगणानां महत्तवादितत्त्वगणानां निर्गुण सगुणब्रह्मगणानां च
पतिर्गणपतिः । सर्वादिपूज्य सर्वपूज्यत्वात् । गणसमूहे इति धात्वर्थात्-न
चैवम्-अशुभसमारम्भे गणेशपूजनं न दृष्टम् । प्राणप्रयाणसाम्यपितृय-
ज्ञादावप्रसिद्धत्वात् - इति वाच्यम् । गर्यास्थगणेशपादस्य पितृमुक्तिप्रद-
त्यात्, वेदोक्त सत्कमरिम्मेर्मारम्भे पितृयज्ञसिद्धिप्रदत्वात् वेदोक्तपितृयज्ञारम्भे
गणेशपूजननिषेधाभावात्, तद्वत्प्राणप्रयाणसमये कथितत्वाच्च । " ज्येष्ठ-
राजम् " इति श्रुतेः पितृणामपि ज्येष्ठत्वात् । तथा च गाणेरोशे
त्रिपुरवधकाले शिववाक्थं-
" शैवैस्त्वदीयैरुत वैष्णवैश्च शाक्तैश्च सौरैरपि सर्वकार्ये ।
शुभाशुभे लौकिकवैदिके च त्वमर्चनीयः प्रथमं प्रयत्नातू " ॥
इति । गणेशगीतायामपि -
 
66
 
""
 
" यः स्मृत्वा त्यजति प्राणमन्ते मां श्रद्धयाऽन्वितः ।
स यात्यपुनरावृत्तिं प्रसादान्मम भूभुज 11
" ॐ गणेशो वै ब्रह्म । तद्विद्याद्यदिदं किंच ।
सर्वे भूतं भव्यं जायमानं च । तत्सर्वमित्याचक्षते ।
अस्मान्नातः परं किंचित् । यो वेद स वेद बल ।
बलै
ब्रह्म ।
ब्रह्मै
वाऽऽप्रोनोति तत्सर्वमित्याचक्षते " ।
---------------------------------------------------------------
१ 'उप' पदसहित इन्द्रः उपेन्द्रो विष्णुः । स यथा उपोपसर्गसहितेन्द्र शब्द-
वाच्योऽपि इन्द्रादुत्तमः, तथा उपपुराणं पुराणादुत्तममिति वाक्पायार्थः । वस्तुतस्तु
उपेन्द्रः इत्यत्र उपोपसर्गस्य सामीप्यार्थत्वात् अन्यत्र कुत्रापि तस्योत्तमार्थाभिधा-
यित्व प्रदर्शनाभावादिदं व्याख्यानमसंगतमेवेति प्रतिभाति ।