This page has not been fully proofread.

सभाष्यम् ।
 
प्रोक्तः" इति श्रुतेः । स्वर इत्योंकाराख्या छान्दोग्ये' । "तस्याऽऽदिस्म-
रणावश्यत्वात्" इति । न चैवं- सर्वश्रुतिस्मृतिपुराणेतिहासप्रोक्तं सर्वा
रम्भेष्वादौ गणेशपूजनं निरर्थकम् अत्रकारस्मरणात् इति वाच्यम् ।
सगुणगणेशस्योंकारमयत्वात् तदेव कथ्यते मौग्दले ।
 
गणेशस्यादिपूजनं चतुर्विधम्, चतुर्मूर्तिधारकत्वात् । तत्र बलणश्च-
तुर्भ्यो मुखेभ्यः पुराणं निःसृतं अष्टलक्षपरिमितम् । ततो द्वापरान्ते व्यासे-
नाष्टादशपुराणान्युपपुराणानि च कृतानि कलिमन्दमति जनबोधप्रवेशा
र्थम् तत्र अष्टादशपुराणेष्वायं ब्राह्मं निर्गुणगणेशमाहात्म्ययुक्तं, बुद्धि-
परात्मप्रतिपादकत्वात् । अन्त्यं ब्रह्माण्डाख्यं सगुणगणेशमाहात्म्ययुक्तं,
प्रवणप्रतिपादकत्वात् तद्वदुपपुराणेष्वाद्यं गाणेशं सगुगनिर्गुणै-
क्यभावयुक्तं, गजवदनाद्यवयवमूर्तिघरमाहात्म्ययुक्तत्वात् । अन्त्यं मौग्दलं
योगमयं गणेशमाहात्म्ययुक्तं, सर्वपुराणोपनिषद्लैक्यभावप्रदत्वात् ।
पुराणोपपुराणेषु मध्यस्थषोडश पुराणानि शिव विष्ण्वादिगणेशांशमा-
हात्म्ययुक्तानि । मध्ये नानांशविहारप्रतिपादकत्वात् । तत्र सर्ववेदाधु-
क्तसदारम्भे गणेशस्मरणं चतुर्विधम् आद्यन्तपुराणोपपुराणेषु गणेश-
माहात्म्यप्रकाशकलात् । तत्र केचिदादौ बुद्धिस्थगणेशस्मरणं कृत्वा
सत्कर्माणि कुर्वन्ति । तद्वत्प्रणवस्मरणं केचित् केचिन्मूर्तिधरस्मरणं,
केचिद्योगमयस्मरणं च, तत्तत्सिद्धिप्रदत्वात् । तत्र कथ्यते
 
,
 
अष्टादशपुराणेषु दशभिर्गीयते शिवः ।
 
चतुर्मियते विष्णुयां शक्तिश्च विघ्नपः " ॥
 
तस्मिन् हि प्रयुज्यमाने स प्रसीदति मियनामग्रहण इव लोक ' इत्युक्तत्वात् 'तस्य
बाचकः प्रणव' इति श्रुतेश्च ओंकारस्य ब्रह्मणः वाचकत्वं सिद्धमत ओंकारशब्द-
वाच्यं ब्रह्मैव गणेश इति वक्तुं प्रथममोंकारस्योपदेश इत्येव व्याख्यानं युक्तम् ।
न चैवं सति ओंकारस्य आरम्भार्थकत्वं कुतो न स्त्रीक्रियत ? इति वाच्यम् । 'अन-
न्ता वै वेदाः' इत्यादिश्रुतिविरोधात् । अनाद्यनन्तस्य वेदस्यारम्भादिकल्पनाया
असंभवादित्यलं पल्लवितन ।
 
१ छान्दोग्योपनिषदि तृतीयाध्यायस्य तृतीपखण्डे 'स्वर इतीमनाचक्षते' इत्यादौ '
द्रष्टव्यमेतत् ।