This page has not been fully proofread.

गणेशाथर्वशीर्षम् ।
 
शकगणेशोपीसन प्रयोजनत्वात्, उपास्योपासकोपासनाया महदज्ञान-
नाशकत्वात्, ब्रह्मण्युपास्यत्वाभावात् सामान्यानुमानतया गणेशब्रह्मणो
रैक्यप्रातपादकत्वाच्च ।
 

 
न न -
 
चैवं ब्रह्मोपासनं वेदान्तविरुद्धम् ब्रह्मभूतस्य उपास्योपासकत्वा-
भावात् । "तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते " इति श्रुते.- इति
वाच्यम् । गणेशोपासनया अज्ञाननाशं कृत्वा ततो योगिनः लोकसंग्र
हाथ गाणेशत्वात्, देहरक्षणार्थं भोजनाच्छादनवत् कायिकवाचिकमा
नसिक सांसर्गिकगाणेशधर्मत्वाच्चेति दिक् । अथ प्रकृतमनुसरामः ।
ॐ नमस्ते गणपतये ।
 
1
 
अथर्वणः स्वानुभवज्ञानं जगदुद्धारार्थमवदत् । सुलभ कर्मोपासनज्ञान-
योगप्राप्तिकारकत्वात् । इति मङ्गलाचरणार्थम् । ग्रन्थादौ मङ्गलाचर-
णस्य शिष्टसंप्रदाय प्रवर्तकत्वात् । वेदाद्य कारः सर्वमङ्गलमयो, वेदो-
क्तनानाकर्मोपासन ज्ञानयोगफलप्राप्तिका रकत्वाच्च । "यो वेदादौ स्वरः
 
१ अत्र सर्वेष्वादर्शपुस्तकेषु ओंकारस्य मङ्गलाचर गार्थत्वमुक्तं तन्न युक्तमिति
प्रतिभाति । यद्यपि "मङ्गलानि च शास्त्राणि थन्वे" इत्यादि वचनैः निष्प-
त्यूहपरिसमाप्तये ग्रन्था मङ्गलाचरणस्थ शिटसंपदायपवर्तकत्वं स्पष्टं तथाऽपि
मङ्गलाचरणस्य विघ्नविघात निवारण मेवानुष्ठेवत्वात् अपौरुषेयेषु स्वत एव मङ्ग-
लरूपेषु विघ्नविघातशङ्कगया असंभवात् अत्र ओंकारस्थ मङ्गलाचरणार्थत्वं न
युक्तम् । पौरुषेयेष्वेव मर्ूहशङ्का, न पुनरपौरुषेयेषु । अतस्तत्रैव मङ्गलाचरणस्थ
शिष्टसंप्रदायः । न हि केषुचिदैदिकग्रन्थेषु मङ्गलाचरणमनुष्ठितं दृष्टम् । किं ।
सर्वकर्मसु आदौ निर्विघ्नतासिद्ध्यर्थं स्मरणीयस्य गणेशस्थाप्यथर्वशीर्षारम्भे प्रत्यू-
हनिवारणार्थं मङ्गलाचरणस्थाऽऽवश्यकत्वे तस्यापि निर्विघ्नतासिद्धयर्थमन्यत्
तस्याप्यन्यादत्यनवस्था केन वार्येत । तस्मात्सुष्ठ कमत्र ओंकारस्थ मङ्गलार्थत्वं
नेति । अथ तस्य कोऽर्थ इति चेत् शण ।
 
66
 
"ओमित्येतद्ब्रह्म" इति श्रुतेः "ओं तत्सदिति निर्देशो बलगत्रिविधः स्मृत"
इति स्मृतेश्च भगवता भाष्यकृता 'ओमित्येतदक्षरं परमात्मनोऽभिधानं नेदिष्ठम्