This page has been fully proofread twice.


गणेशाथर्वशीर्षम् ।
 
शकगणेशोपासनप्रयोजनत्वात्, उपास्योपासकोपासनाया महदज्ञान-
नाशकत्वात्, ब्रह्मण्युपास्यत्वाभावात् सामान्यानुमानतया गणेशब्रह्मणो-
रैक्यप्रतिपादकत्वाच्च ।
 
न चैवं–ब्रह्मोपासनं वेदान्तविरुद्धम् ब्रह्मभूतस्य उपास्योपासकत्वा-
भावात् । " तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते " इति श्रुते.- इति
वाच्यम् । गणेशोपासनया अज्ञाननाशं कृत्वा ततो योगिनः लोकसंग्र-
हार्थं गाणेशत्वात्, देहरक्षणार्थं भोजनाच्छादनवत् कायिकवाचिकमा-
नसिकसांसर्गिकगाणेशधर्मत्वाच्चेति दिक् । अथ प्रकृतमनुसरामः ।
 
ॐ नमस्ते गणपतये ।
 
अथर्वणः स्वानुभवज्ञानं जगदुद्धारार्थमवदत् । सुलभकर्मोपासनज्ञान-
योगप्राप्तिकारकत्वात् । ॐ इति मङ्गलाचरणार्थम् [^]१ । ग्रन्थादौ मङ्गलाचर-
णस्य शिष्टसंप्रदायप्रवर्तकत्वात् । वेदाद्य ॐ कारः सर्वमङ्गलमयो, वेदो-
क्तनानाकर्मोपासनज्ञानयोगफलप्राप्तिकारकत्वाच्च । "यो वेदादौ स्वरः
---------------------------------------------------------------------------------------------
१ अत्र सर्वेष्वादर्शपुस्तकेषु ओंकारस्य मङ्गलाचरगाणार्थत्वमुक्तं तन्न युक्तमिति
प्रतिभाति । यद्यपि <flag>"मङ्गलमध्यानि च शास्त्राणि प्रथन्ते"</flag> इत्यादि वचनैः निष्-
त्यूहपरिसमाप्तये ग्रन्थादौ मङ्गलाचरणस् शिष्टसंप्रदायपवर्तकत्वं स्पष्टं तथाऽपि
मङ्गलाचरणस्य विघ्नविघातनिवारणार्थमेवानुष्ठेत्वात् अपौरुषेयेषुपु स्वत एव मङ्ग-
लरूपेषु <fix>विघ्नविघातशङ्काया</fix> असंभवात् अत्र ओंकारस् मङ्गलाचरणार्थत्वं न
युक्तम् । पौरुषेयेष्वेव <fix>प्रथ्त्यूहशङ्का</fix>, न पुनरपौरुषेयेषु । अतस्तत्रैव मङ्गलाचरणस्
शिष्टसंप्रदायः । न हि केषुचिद्वैदिकग्रन्थेषु मङ्गलाचरणमनुष्ठितं दृष्टम् । किंच ।
सर्वकर्मसु आदौ निर्विघ्नतासिद्ध्यर्थं स्मरणीयस्य गणेशस्याप्यथर्वशीर्षारम्भे प्रत्यू-
हनिवारणार्थं मङ्गलाचरणस्थायाऽऽवश्यकत्वे तस्यापि निर्विघ्नतासिद्धयर्थमन्यत्
तस्याप्यन्यदित्यनवस्था केन वार्येत । तस्मात्सुष्ठू <fix>त्कमत्र</fix>क्तमत्र ओंकारस्य मङ्गलार्थत्वं
नेति । अथ तस्य कोऽर्थ इति चेत् शृणु ।
 
"ओमित्येतद्ब्रह्म" इति श्रुतेः "ओं तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृत"
इति स्मृतेश्च भगवता भाष्यकृता 'ओमित्येतदक्षरं परमात्मनोऽभिधानं नेदिष्ठम्