This page has been fully proofread once and needs a second look.

सभाष्यम् ।


 
कत्वात् । अन्यच्च । सर्वावतारसत्तायाः पतिरीशानो ब्रह्मणोऽधिपतिः ।
सत्ता सदैकजातिमत्त्वादेकवचनम् । अन्यच्च । ब्रह्मा नानावतारसत्ता-
स्रष्टेशानः, विशेष्यात्मकत्वात् ।
 
66

 
i
 
ननु - गणेशोऽपि तादृश एव, विशेष्यात्मकत्वात्-इति चेन्न । बल-
णस्पतिविशेष्यत्वाद्गणपत्यादिपदविशेषणत्वाद्ब लैक्यभावप्रदब्रह्मणस्प-
त्याख्याया मुख्यत्वाच्च । ननु - ब्रह्मणस्पतेरपि बलोपासना मुख्या,
पतिभावनाशकत्वात् हावाक्यस्य ब्रह्मप्रतिपादकत्वाच्च । प्रज्ञानं
ब्रह्म सत्यं ज्ञानमनन्तं ब्रह्म । सर्वं खल्विदं ब्रह्म । अहं ब्रह्मास्मि । एक-
मेवाद्वितीयं बल । अयमात्मा बल " इत्यादिश्रुतिभ्यश्च - इति चेन्न ।
स्वस्वोपाधियुक्तब्रह्मणां सर्वकारणबसणश्चोपदेशार्थी पतिपदं, तदाराव-
नोपाधि कारणभावनाशकत्वात् । पतिपन वास्तवम् । उपाधिहीन-
ब्रह्मणां कारणहीन ब्रह्मणश्च पतित्वाभावः, तदैक्यत्वात् । "पतित्वं कय-
नात्मकम्" इति स्मृतेः ।
 
ननु - बाह्यज्ञाननाशको गणेशः, अवयवयुक्तत्वात् इति चेन्न । आन्त-
राज्ञाननाशकोऽपि, बुद्धिपतित्वात्। "अणोरणीयान्महतो महीयानात्मा
गुहायां निहितोऽस्य जन्तोः" इति ' सत्यं ज्ञानमनन्तं ब्रह्म । यो वेद
निहितं गुहायाम्" (तै० उ० २ अ० १ ) इत्यादिश्रुतिभ्यः, 'यो बुद्धेः
परतस्तु रु: ' इति, 'आत्मा बुद्धेः परो मतः' इत्यादिस्मृतिभ्यश्च ननु -
शिवविष्णुसूर्यशक्तिचिन्तनं ब्रह्मभावप्रई, तत्तदथर्वशीर्षे तत्तद्ल प्रतिपाद-
कत्वात् इति चेन्न । अव्याकृतप्रणवानन्दायुपासनवदारण्यको क्तब्रल-
प्रतिपादकत्वात्, गणेशाथर्वशीर्षे तत्त्वमस्यात्म कम हावाकप्रतिपाद्यत्र-
लैक्यात्, महावाक्यात्परं वेदान्ते ब्रह्मप्रतिपादनाभावाच्च ।
 
1
 
न चैवं- गजवदनायवयवयुक्तगणेशस्य भिन्नतावच्छेदकावच्छेद्यतया
ब्रह्मणि महावाक्यप्रतिपाद्य ऐक्याभावादतिव्याप्तिः । सदा कार्यकारणै-
क्यब्रह्मणः सावयवगणेशेऽवच्छेद्यही नत्वाव्याप्तिश्च - इति वाच्यम् । त्वं
तदसिपदस्वस्वोपाथिविहार सामर्थ्यप्रद संपूर्ण तत्त्वमस्यात्म कदेहमुद्गणेशो-
पासनप्रयोजनत्वात्, अनन्तकल्पविहार शाश्वत संतोषस्वस्वोपाधिना-
१ अत्र 'स्वस्थोपाधिविहार' इत्यनेन शिवविष्णवाद्य काररूपोपाधिभिः लीला.
कैवल्य मित्यर्थोऽवगन्तव्यः ।
 
WEL