This page has been fully proofread twice.

सभाष्यम् ।
 

 
कत्वात् । अन्यच्च । सर्वावतारसत्तायाः पतिरीशानो ब्रह्मणोऽधिपतिः ।
सत्ता सदैकजातिमत्त्वादेकवचनम् । अन्यच्च । ब्रह्मा नानावतारसत्ता-
स्रष्टेशानः, विशेष्यात्मकत्वात् ।
 
66
 
i
 
ननु - गणेशोऽपि तादृश एव, विशेष्यात्मकत्वात्-इति चेन्न । बलब्रह्म-
णस्पतिविशेष्यत्वाद्गणपत्यादिपदविशेषणत्वाद्ब लैब्रह्मैक्यभावप्रदब्रह्मणस्प-
त्याख्याया मुख्यत्वाच्च । ननु - ब्रह्मणस्पतेरपि बलोब्रह्मोपासना मुख्या,
पतिभावनाशकत्वात् हावाक्यस्य ब्रह्मप्रतिपादकत्वाच्च । "प्रज्ञानं
ब्रह्म सत्यं ज्ञानमनन्तं ब्रह्म । सर्वं खल्विदं ब्रह्म । अहं ब्रह्मास्मि । एक-
मेवाद्वितीयं बल । अयमात्मा बलब्रह्म " इत्यादिश्रुतिभ्यश्च - इति चेन्न ।
स्वस्वोपाधियुक्तब्रह्मणां सर्वकारणबसब्रह्मणश्चोपदेशार्थीथं पतिपदं, तदारा-
नोपाधि कारणभावनाशकत्वात् । पतिपदं न वास्तवम् । उपाधिहीन-
ब्रह्मणां कारणहीन ब्रह्मणश्च पतित्वाभावः, तदैक्यत्वात् । "पतित्वं क-
नात्मकम्" इति स्मृतेः ।
 
ननु - बाह्यज्ञाननाशको गणेशः, अवयवयुक्तत्वात् इति चेन्न । आन्त-
राज्ञाननाशकोऽपि, बुद्धिपतित्वात्। "अणोरणीयान्महतो महीयानात्मा
गुहायां निहितोऽस्य जन्तोः" इति ' सत्यं ज्ञानमनन्तं ब्रह्म । यो वेद
निहितं गुहायाम्" (तै० उ० २ अ० १ ) इत्यादिश्रुतिभ्यः, 'यो बुद्धेः
परतस्तु रु: ' इति, 'आत्मा बुद्धेः परो मतः' इत्यादिस्मृतिभ्यश्च ननु -
शिवविष्णुसूर्यशक्तिचिन्तनं ब्रह्मभावप्रदं, तत्तदथर्वशीर्षे तत्तद्ब्रह्मप्रतिपाद-
कत्वात् इति चेन्न । अव्याकृतप्रणवानन्दाद्युपासनवदारण्यको क्तब्रह्म-
प्रतिपादकत्वात्, गणेशाथर्वशीर्षे तत्त्वमस्यात्म कम कमहावाकप्रतिपाद्यत्र-
लै
ब्र-
ह्मै
क्यात्, महावाक्यात्परं वेदान्ते ब्रह्मप्रतिपादनाभावाच्च ।
 
1

 
न चैवं- गजवदनायवयवयुक्तगणेशस्य भिन्नतावच्छेदकावच्छेद्यतया
ब्रह्मणि महावाक्यप्रतिपाद्य ऐक्याभावादतिव्याप्तिः । सदा कार्यकारणै-
क्यब्रह्मणः सावयवगणेशेऽवच्छेद्यही नत्वाव्याप्तिश्च - इति वाच्यम् । त्वं
तदसिपदस्वस्वोपाथिधिविहार सामर्थ्यप्रद संपूर्ण तत्त्वमस्यात्म कदेहमुभृद्गणेशो-
पासनप्रयोजनत्वात्, अनन्तकल्पविहार शाश्वत संतोषस्वस्वोपाधिना-

१ अत्र 'स्वस्थोवोपाधिविहार' इत्यनेन शिवविष्णवाद्याकाररूपोपाधिभिः लीला.-
कैवल्य मित्यर्थोऽवगन्तव्यः ।
 
WEL