This page has been fully proofread once and needs a second look.

(२)
गणेशाथर्वशीर्षम् ।
 
पापवादसिद्धिर्भविष्यति । अभेदभावनायाभेदनाशकत्वात्-इति चेन्न ।
ब्रह्मण ऐक्यभावचिन्तनाभावात् । "यतो वाचो निवर्तन्ते अप्राप्य मनसा
सह" [तै० उ०२।४।२८ ] इति श्रुतेः गणेशचिन्तनस्य संभवाच्च (१) ।
"ब्रह्मणां ब्रह्मणस्पते" इति श्रुतिसार्थकत्वात् । अस्यायमर्थः । ब्रह्मणा-
मन्नप्राणादिप्रणवपर्यन्तानां शिवविष्ण्वादिदेवात्मकानां च पतिर्गणेशः ।
सोपाधित्वेन नानात्मकत्वात्सदासमानत्वाभावाद्ब्रह्मणामिति बहुवचनम् ।
अन्यच्च । ब्रह्मणो निरुपाधिसर्वकारणात्मनः पतिः । अनपवादनिर्वि-
कल्पनात्मकत्वात् । एकवचनं जीवात्मपरमात्मनोरैक्यत्वात् । तयोः
पतिस्तत्त्वमस्यात्मकत्वान् । ननु ब्रह्मणः चिन्तनं संभवति, "श्रोतव्यो
मन्तव्यो निदिध्यासितव्यः " (बृ० उ० ४१४ ५ ) इति श्रुतेः इति चेत् ।
सत्यम् । तथाऽपि चित्तवृत्तिनिरोधभावना सुदुर्लभा । सातत्येन ध्यातृ-
ध्यानध्येयाभावात् चित्तस्य चञ्चलत्वेन तत्स्थैर्याभावाच्च । वस्तुतस्तु
गणेशचिन्तनं सर्वसिद्धिप्रदम् । तत्त्वमस्थात्मकत्वात्सुलभाथर्वशीर्षतात्प-
र्यात् । ननु - नानाकामप्रदं गणेशचिन्तनं, सिद्धिप्रदत्वात्-इति चेन्न ।
ब्रह्मभावसिद्धिप्रदत्वात् । "कर्मणैव हि संसिद्धिमास्थिता जनकादयः "
इति " सिद्धानां कपिलो युनिः " इति । भविष्ये व्यासेन शुकस्योप-
देशः कृतः " प्राप्स्यसे सिद्धिमुत्तमाम् " इत्यादिनानास्मृतिभ्यः ।
 
ननु -- शिवचिन्तनं सर्वसिद्धिप्रदम् । "ब्रह्माधिपतिर्ब्रह्मणोऽधिपातिः "
इति श्रुतेः- इति चेन्न । ईशानस्य विशेष्यत्वात् ब्रह्माधिपत्यादिपदानां
तदङ्गविशेषणत्वात् । ननु - सर्वश्रेष्ठेशानब्रह्माधिपत्यादिपदानां विशेषण
त्वमेव - इति चेन । ब्रह्मणः परश्रेष्ठाभावात् सर्वश्रुतिस्मृतिविरोधापत्तेश्च ।
"ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्मा" इत्यस्यायमर्थः । तामसस्योंका-
रात्मकस्य विश्वेश्वरादिद्वादशशिवावताराणामेकादशरुद्राणां कालभैर-
वादिशिवावताराणां च स्तवनं ब्रह्मात्मकतया कृतम्, अंशांशिनोरैक्य-
प्रतिपादनत्वात् । तेषां शिवावतारब्रह्मणामधिपतिरीशान:, तत्तद्रूपधार-
--------------------------------------------------------
१ साकार त्वात् गणेशचिन्तनस्य संभव इत्यवधेयम् ।
 
२ अत्र सर्वेष्वादर्शपुस्तकेषु 'ब्रह्मभूतसिद्धि' इति प्रामादिकमिव प्रतिभाति ।
"ब्रह्मभूयसिद्धि" रथवा "ब्रह्मभावसिद्धि" इत्येव सुवचम् ।