2022-11-15 02:16:14 by Aaboli
This page has been fully proofread twice.
ॐ तत्सद्ब्रह्मणे नमः ।
अथ गणेशाथर्वशीर्षम् ।
-::--::--::--::--::--::-
सभाष्यम् ।
-::--::--::--::--::--::-
प्रणम्य तं गणेशानं सिद्धिबुद्धिप्रदं परम् ।
अथर्वशीर्ष भाष्यं वै कुर्वे वेदान्तर्बृहितम् ॥ १ ॥
अथाथर्वणो ब्रह्मणां ब्रह्मणश्व स्वस्वोपाधिविरहात्मैक्यज्ञानप्राप्त्यर्थं( [^]१)
गणेशाथर्वशीर्षमवदत् । सर्ववेदोक्तकर्मोपासनज्ञाननिष्ठनिर्विघ्नसिद्धि-
बुद्धिप्रकाशकतत्तत्फलवेदान्तवेद्यैक्ययोगप्रदतत्त्वमस्यात्मकदेहत्वात् ।
तत्त्वमसिप्रतिपाद्यब्रह्मबाह्यान्तरकर्भज्ञानप्राप्त्यर्थोपासकत्वाभावाच्च ।
ननु – तत्त्वमस्यादिमहावाक्यार्थानुभवयुक्ता योगिनो मवन्ति, किं गणे-
शोपासनेन ? सावयवब्रह्मण एकत्वाभावात् – इति चेन्न । महावाक्यप्रति-
पाद्यब्रह्मसदभेदात्मकत्वादध्यारोपापवादसिद्ध्यर्थं( [^]२) गणेशोपासनं मुख्यं,
बाह्यान्तरानात्मभावनाशकत्वाच्च( [^]३) । ननु ब्रह्मैक्यमावचिन्तनादध्यारो-
-----------------------------------------------------
१ अत्र मूले चतुर्ष्वप्यादर्शपुस्तकेषु 'स्वस्वोपाधिविहारात्मैक्य' इति वर्तते
तदसङ्गतमिव प्रतिभाति । "उपाधिना क्रियते भेदरूपः" इत्यादिश्रुतिभ्यः ब्रह्मणां
जीवानां, ब्रह्मणश्च उपाधिकल्पित एव भेदः वस्तुतस्त्वभेद एव । अतः जीव-
ब्रह्मणोः स्वस्वोपाधिभूतयोः विद्याविद्ययोः विरहेण भागत्यागलक्षणया पृथक्करणेन
यदात्मैक्यज्ञानं तस्य प्राप्त्यर्थमथर्वणो गणेशाथर्वशीर्षमवददित्येव साधीयः । स्वस्वोपा-
धिविहारेणात्मैक्यज्ञानप्राप्तेरसंभवात् तत्र प्रमाणाभावाच्चेति सुधियो विदाङ्कुर्वन्तु ।
२ " निष्कलं निष्कियं शान्तं " इत्युक्तत्वात् शुद्धस्य ब्रह्मणः " यतो वाचो
निवर्तन्ते अप्राप्य मनसा सह " इति श्रुत्या वाङ्मनसयोरगोचरस्य तस्योपासनं
न घटेत । अतः " अध्यारोपापवादाभ्यां निष्प्रपञ्चं प्रपञ्च्यते " इति न्यायेन
उपासनसिद्धयर्थं सगुणस्य गणेशत्वस्थ तत्राऽऽरोप इति भावः ।
३ बाह्याः पाञ्चभौतिकशरीरतादात्म्यादयः आभ्यन्तराः अहं सुखी–इत्याद्य-
भिनिवेशादयो येऽनात्मभावाः तेषां नाशकत्वादित्यर्थः ।
अथ गणेशाथर्वशीर्षम् ।
-::--::--::--::--::--::-
सभाष्यम् ।
-::--::--::--::--::--::-
प्रणम्य तं गणेशानं सिद्धिबुद्धिप्रदं परम् ।
अथर्वशीर्ष भाष्यं वै कुर्वे वेदान्तर्बृहितम् ॥ १ ॥
अथाथर्वणो ब्रह्मणां ब्रह्मणश्व स्वस्वोपाधिविरहात्मैक्यज्ञानप्राप्त्यर्थं
गणेशाथर्वशीर्षमवदत् । सर्ववेदोक्तकर्मोपासनज्ञाननिष्ठनिर्विघ्नसिद्धि-
बुद्धिप्रकाशकतत्तत्फलवेदान्तवेद्यैक्ययोगप्रदतत्त्वमस्यात्मकदेहत्वात् ।
तत्त्वमसिप्रतिपाद्यब्रह्मबाह्यान्तरकर्भज्ञानप्राप्त्यर्थोपासकत्वाभावाच्च ।
ननु – तत्त्वमस्यादिमहावाक्यार्थानुभवयुक्ता योगिनो मवन्ति, किं गणे-
शोपासनेन ? सावयवब्रह्मण एकत्वाभावात् – इति चेन्न । महावाक्यप्रति-
पाद्यब्रह्मसदभेदात्मकत्वादध्यारोपापवादसिद्ध्यर्थं
बाह्यान्तरानात्मभावनाशकत्वाच्च