This page has been fully proofread once and needs a second look.

गणेशाथर्वशीर्षम् ।
अथान्यप्रयोगार्थमाह–
अष्टौ ब्राह्मणान्सम्यग्ग्राहयित्वा सूर्यवर्चस्वी भवति ।
सूर्यग्रहे महानद्यां प्रतिमासंनिधौ वा जप्त्वा
सिद्धमन्त्रो भवति । महाविघ्नात्प्रमुच्यते महादो-
षात्प्रमुच्यते । महाप्रत्यवायात्प्रमुच्यते । स सर्ववि-
द्भवति स सर्वविद्भवति य एवं वेद ॥ १४॥ इत्यथ-
र्वणवेदोपनिषत्सु गणेशाथर्वशीर्षं समाप्तम् ॥
अष्टाविति । सम्यक् ग्राहयित्वा, यथार्थाथर्वशीर्षगणेशैकतत्परका-
रयितृत्वात् सूर्यवर्चस्वी भवति, सूर्यवत्सर्वज्ञानप्रकाशयुक्तत्वात् गणेश-
ज्ञानान्तर्गतनानावेदान्तप्रतिपाद्यज्ञानत्वाच्च । सूर्यग्रहे महानद्यां ब्रह्मकम-
ण्डलुभागीरथीयमुनासरस्वतीनर्मदादीनां कस्याश्चिन्नद्यास्तीरे महाघना-
शकत्वादनन्तगुणाधिकसत्कर्मफलप्राप्तिकारकत्वात् । प्रतिमासंनिधौ
मयूरेश्वरादिमहाक्षेत्रस्थगणेशप्रतिमासंनिधौ वा जप्त्वा सिद्धमन्त्रो
भवति ।
 
मन्त्रोक्तसिद्धिसामर्थ्ययुक्तत्वात् । अथर्वशीर्षात्मकमन्त्रजपो
मालामन्त्रप्रमाणत्वात् तज्जप्त्वाऽर्वशीर्षोक्तज्ञानवानेकाक्षरविद्यामिसिद्ध-
सामर्थ्यवान्भवतीति । महाविघ्नात्कालभयात्प्रमुच्यते, अथर्वशीर्षोपास-
नाया अमृतमयत्वात् । महादोषान्मायाविकारात्मकदोषात्, मायाविका-
परदोषाभावात् महाप्रत्यवायाज्जीवन्मुक्तवि भावात् महाप्रत्यवायाज्जीवन्मुक्तविषयासक्तयुक्तप्रयुक्तप्रत्यवा-
यातूत्, " योगस्थित्यभावात् म सर्वविद्भवति, गणेशज्ञानान्तर्गत सर्वज्ञा-
नत्वात् । आत्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानने<flag>वे</flag>सर्वꣳ सर्वं
विदितं भवति " इति श्रुते<flag>तेः</flag> । अथर्वशीर्षममाप्तिज्ञापनार्थं वीप्मासा वेदसं-
प्रदायत्वात् । य एवं वेद पूर्वोक्तयथार्थज्ञानयुक्तत्वात् ॥ इत्यथर्वणवेदोप
-
निषत्सु अन्य प्रयोगात्मक श्चतुर्दशः खण्डः ॥ १४ ॥

1
 
॥ इति गणेशाथवंर्वशीर्ष भाष्यं समाप्तम्
॥ श्रीगजाननार्पणमस्तु
 
STOPP
 
BFPESH
PA IP DE
 
टी
 
पोषक
 
ISP PR
 
1.