2023-04-13 01:56:47 by Aaboli
This page has been fully proofread once and needs a second look.
सभाष्यम् ।
थर्वणवाक्यम् । ब्रह्माद्यावरणं विद्यान्न बिभेति
कदाचनेति ॥ १२ ॥
अनेनेति । प्रशस्तवागर्थ्याभिषेकं कुर्यादिति । चतुर्थ्यामनश्नञ्जपति
यः स विद्यावान्भवति, प्रातरारभ्य सायंपर्यन्तं जपानुष्ठानपरत्वात् । इत्य-
थर्वणवचनत्वाद्यथार्थफलप्राप्तिरिति । ब्रह्मादीनां मायावरणं विद्यात्
अत एव न बिभेति, ज्ञातावरणतन्मोहहीनत्वात् ॥ इति नानाप्रयोगफल-
श्रुत्यात्मको द्वादशः खण्डः ॥ १२ ॥
एवं भयहीनतां प्रतिपाद्य यजनार्थमाह–
यो दूर्वाङ्कुरैर्यजति स वैश्रवणोपमो भवति । यो
लाजैर्यजति स यशोवान्भवति स मेधावान्भव-
ति । यो मोदकसहस्रेण यजति स वाञ्छितमवा-
प्नोति । यः साज्यसमिद्भिर्यजति स सर्वं लभते स
सर्वं लभते ॥ १३ ॥
य इति । दूर्वाङ्कुरैर्यजति स कुबेरसमो भवति, कनकप्रियत्वात् ।
लाजैर्होमो यशःप्रदो मेधाप्रदश्च, तत्तत्प्रयोगप्रमाणत्वात् । यो मोदकस-
हस्त्रेणं यजति, प्रतिखण्डं जुहुयात्प्रत्यर्चवत्प्रमाणत्वात्, स वाञ्छितफल-
मवाप्नोति, नानाकार्यसिद्धिप्रदत्वात्, यः साज्यसमिद्भिर्यजति मन्त्रशा-
स्त्रोक्तनानाकार्यप्रदनानासमिद्धोमप्रभाणत्वात्, स सर्वं लभते स सर्वं
लभते । अत्र वीप्साऽऽदरप्रदर्शिनी । नानासमिद्धोमप्रियत्वात् । अत्र
कुण्डवेदिदेवतास्थापनादिकं वैदिकतान्त्रिकमार्गोक्तवद्ग्राह्यम् । आहु-
तिगणनानियमः सर्वसाधारणत्वात् । अत्र जपानुष्ठानं मुख्यम् ।
यं यं
काममधीते तं तपमनेन साधयेत्, एकानुष्ठानस्य सर्वकार्यप्रदत्वाद्वीप्तासाया
आदरार्थत्वाच्च । न चैवं मोदकसहस्र होमसाज्यसमिद्धोमौ मुख्यौ, वा.-
ञ्छितप्रदे ' सर्वेवं लभते ' इतिवीप्सादरप्रमाणत्वादिति वाच्यम् । मोद-
कहोमस्य वीप्साहीनत्वात् । साज्यसमिद्धोमः वीप्सादरयुक्तोऽपि नाना-
कार्यप्रदनानाममिद्धोमानुष्ठानपरत्वात् । अत्र सहस्रा वर्तनात्मकं पुरश्च-
रणम् । सहस्रावर्तनाद्यं यं काममधीत इति मोदकसहस्रेण यजतीति
प्रमाणात् ॥ इति होमात्मकस्त्रयोदशः खण्डः ॥ १३ ॥
35
थर्वणवाक्यम् । ब्रह्माद्यावरणं विद्यान्न बिभेति
कदाचनेति ॥ १२ ॥
अनेनेति । प्रशस्तवागर्थ्याभिषेकं कुर्यादिति । चतुर्थ्यामनश्नञ्जपति
यः स विद्यावान्भवति, प्रातरारभ्य सायंपर्यन्तं जपानुष्ठानपरत्वात् । इत्य-
थर्वणवचनत्वाद्यथार्थफलप्राप्तिरिति । ब्रह्मादीनां मायावरणं विद्यात्
अत एव न बिभेति, ज्ञातावरणतन्मोहहीनत्वात् ॥ इति नानाप्रयोगफल-
श्रुत्यात्मको द्वादशः खण्डः ॥ १२ ॥
एवं भयहीनतां प्रतिपाद्य यजनार्थमाह–
यो दूर्वाङ्कुरैर्यजति स वैश्रवणोपमो भवति । यो
लाजैर्यजति स यशोवान्भवति स मेधावान्भव-
ति । यो मोदकसहस्रेण यजति स वाञ्छितमवा-
प्नोति । यः साज्यसमिद्भिर्यजति स सर्वं लभते स
सर्वं लभते ॥ १३ ॥
य इति । दूर्वाङ्कुरैर्यजति स कुबेरसमो भवति, कनकप्रियत्वात् ।
लाजैर्होमो यशःप्रदो मेधाप्रदश्च, तत्तत्प्रयोगप्रमाणत्वात् । यो मोदकस-
हस्त्रेणं यजति, प्रतिखण्डं जुहुयात्प्रत्यर्चवत्प्रमाणत्वात्, स वाञ्छितफल-
मवाप्नोति, नानाकार्यसिद्धिप्रदत्वात्, यः साज्यसमिद्भिर्यजति मन्त्रशा-
स्त्रोक्तनानाकार्यप्रदनानासमिद्धोमप्रभाणत्वात्, स सर्वं लभते स सर्वं
लभते । अत्र वीप्साऽऽदरप्रदर्शिनी । नानासमिद्धोमप्रियत्वात् । अत्र
कुण्डवेदिदेवतास्थापनादिकं वैदिकतान्त्रिकमार्गोक्तवद्ग्राह्यम् । आहु-
तिगणनानियमः सर्वसाधारणत्वात् । अत्र जपानुष्ठानं मुख्यम् ।
काममधीते तं त
आदरार्थत्वाच्च । न चैवं मोदकसहस्र
ञ्छितप्रदे ' सर्
कहोमस्य वीप्साहीनत्वात् । साज्यसमिद्धोमः वीप्सादरयुक्तोऽपि नाना-
कार्यप्रदनानाममिद्धोमानुष्ठानपरत्वात् । अत्र सहस्रा