This page has been fully proofread once and needs a second look.

गणेशाथर्वशीर्षम् ।
न देयम् । यो यदि मोहाद्दास्यति स पापी-
यान्भवति । सहस्रावर्तनाद्यं यं काममधीते तं
तमनेन साधयेत् ॥ ११ ॥
एतदिति । एतदथर्वशीर्षं योऽधीते स ब्रह्मभूयाय कल्पते, देहभृदपि
ब्रह्मैवस्यात्तत्त्वमस्यात्मकगणेशाधीनसामर्थ्यात्तद्विश्वासयुक्तत्वात् अन्य-
द्योऽनुभवकृत्सोऽप्यधीत इति कथ्यते । स देहभृद्ब्रह्मैव, योगित्वाच्च ।
स सर्वविघ्नैर्न बाध्यते । धर्मार्थकाममोक्षसाधनान्तरायात्मकविघ्नैर्न
बाध्यते, साधनशीलाधीनत्वात् । स सर्वत्र सुखमेधते, नानालोकस्था-
धीनत्वान्नानाकार्यसुखयुक्तत्वाच्च । स पञ्चमहापापात्प्रमुच्यते । पापं
पञ्चबिधम् । हिंसाभक्ष्यभक्षणपरस्त्रीगमनस्तेयतत्संसर्गात्मकत्वात् । तत्र
पञ्चमहापापादिति जातित्वादेकवचनम् । ब्रह्महत्या सुरापानगुरुतल्पगम-
नसुवर्णस्तेयतत्संसर्गयुक्तत्वात् । आदावेव सायमधीयान इति, गुरुमुखो-
द्गतं स्वकण्ठगं कृत्वाऽध्ययनकाल आदौ सायंकालप्राप्ततत्वात् । तद्त्प्रा-
तरेव । सायं प्रातरधीयानः सर्वदिवसरात्रिपापवर्जितत्वादपापो भवतीति ।
सर्वत्राधीयानोऽपविघ्नो भवति । नानाकार्यकृत्तत्तत्कार्याद्यधीतत्वात् ।
धर्ममर्थं कामं मोक्षं च <error>बि</error>न्दतीति । इहलोकमनादृत्य परलोकार्थसत्क-
र्मपरायणत्वात् धर्मार्थी । इहलोकश्रेष्ठार्थसत्कर्मपरायणत्वात् अर्थार्थी ।
 
इहलोकपरलोकोद्भवभोगार्थसत्कर्मपरायणत्वात् कामार्थी । इहलोक-
परलोकविरागयुक्तात्मप्राप्त्यर्थसत्कर्मपरायणत्वात् मोक्षार्थी च । एकै-
कपुरुषार्थी <flag>चतुपुरुषार्थी</flag> वा य इदमधीते स तत्तल्लभ<flag>ते</flag>, गणेशस्य इच्छा
पूरकत्वात् । अशिष्याय यथार्थाथर्वशीर्षशिक्षाहीनाय न देयमिदम्,
ऋतसत्यवादिरक्षकगणेशत्वात् । यो यदि मोहाद्दास्यति, द्रव्यलोभा-
च्छुश्रूषालोभाद्विद्याविनिमयलोभादित्यादिना नामोहादिति सोऽतिपापी,
यथार्थाथर्वशीर्षशुश्रूषणासुरभावगणेशपीडितत्वात् । अस्य सहस्रावर्त-
नाद्यं यं काममिच्छति तं तं प्राप्नुयात् । वीप्साया आदरार्थत्वात् ॥
इत्यध्ययनफलश्रुत्यात्मक एकादशः खण्डः ॥ ११ ॥
एवमध्ययफलश्रुतिं प्रतिपाद्य नानाप्रयोगार्थमाह -
 
अनेन गणपतिमभिषिञ्चति स वाग्ग्मी भवति ।
चतुर्थ्यामनश्नञ्जपति स विद्यावान्भवति । इत्य-