This page has not been fully proofread.

सभाष्यम् ।
 
नार्थं कलांशगणेशावतरणं सर्वत्र प्रसिद्धम् । तदवतारचरित्रज्ञापनार्थ-
त्वादत्र शिवसुत इति कथितः वेदप्रामाण्येषु पुराणेषु नानावतारप्रतिपा-
नात् । न चैवं तपःप्रार्थित गणेशः शिवसुतः, तत्र शिवः श्रेष्ठो गणेशज-
नकत्वादिति वाच्यम् । एवं शिवविष्ण्वाद्यवतारचरित्रत्वादनादिसंप्रदाय-
त्वाच्च । विष्ण्वथर्वशीर्षे "ब्रह्मण्यो मधुसूदनः" इति श्रुतेः । देवकी-
पुत्रत्वेन विष्णोर्न कनिष्ठत्वापत्तिः, भक्तवाञ्छितकृतत्वाद्भक्ताधीनदेवेश-
त्वाच्च । ते नमः वरदमूर्तये, सर्वेश्वरजनवरत्वात् प्रत्यक्षं वरदमूर्तिः
स्ववरदाभावाच्च । न चैवं शिवविष्ण्वादिवरदगणेशत्वाद्गणेशवरदाभावात् ।

ननु शिवपुराणे गणेशवरदः शिवः कथितः, 'सर्वादिपूज्यो भव' इति
वचनादिति चेत्रन्न । शिवपुत्रभावरक्षणार्थत्वात् पितृदत्ताधिकारपरायण-
पुत्रत्वात् दशरथदत्तयुवराजाधिकारयुक्तरामचन्द्रवत्पुरातन संप्रदायत्वात्
[च्च] । ते नमः । 'व्रातपतये' इत्यारभ्य 'वरदमूर्तये नमः' इतिपर्य-
न्तमष्टनामनमनं, तदन्तर्गतमर्वनामत्वात् । नाम सर्वनामत्वात् । नाममन्त्र तत्त्वमस्थायात्मक सत्य-
वादिभक्तरक्षणात्मकौकोंकारात्म कैकाक्षरविद्यागायत्री ध्यानस्तुतिप्रतिपाद-
कमष्टमार्गप्रकाशकत्वादृष्टाङ्गमिति ॥ इति स्तुतिप्रतिपाको दशमः

खण्डः ॥ १० ॥
 
msher इति - अथर्वणऋषिप्रोक्तं गणेशाथर्वशीर्ष समाप्तम् ।
॥ अथ फलश्रुतिः ॥
 
jafar
 
एवं स्तुतिं प्रतिपाद्य गणेशाथर्वशीर्षफलश्रुतिं प्रतिनावग्रन्थमाह ।
तत्राऽऽदौ गणेशाथर्वशीर्षाध्ययन फलप्रतिपादनार्थमाह-
एतदथर्वशीर्षं योऽधीते स ब्रह्मभूयाय कल्पते ।
स सर्वविघ्नैर्न बाध्यते । स सर्वत्र सुखमेधते । स
पञ्चमहापापात्प्रमुच्यते । सायमधीयानो दिवस-
कृतं पापं नाशयति । प्रातरधीयानो रात्रिकृतं
पापं नाशयति । सायं प्रातः प्रयुञ्जानो अपापो
भवति । सर्वत्राधीयानोऽपविघ्नो भवति । धर्ममर्थं
कामं मोक्षं च विन्दति । इदमथर्वशीर्षंमशिष्याय