This page has been fully proofread once and needs a second look.

गणेशाथर्वशीर्षम् ।
 
स्थितिलयत्वाच्च । ब्रह्मविष्णुमहेशा वयं ब्रह्माण इति मदयुक्ताः सन्तो
वेदमार्गं त्यक्त्वा स्वेच्छाविहारिणो यदा भवन्ति, तदा सविघ्ना असुरैः
पराजिताः स्वेच्छा विहारभङ्गा भवन्ति । पुनर्बह्माभिमानं त्यक्त्वा गणेश
एक एव स्वेच्छाचारी ब्रह्मशरीरत्वात्, <flag>एयं</flag> ज्ञात्वा शरणं गच्छन्ति
तदा स्वस्वसामर्थ्ययुक्ता असुरान्विजित्य स्वपदस्था ईश्वरा भवन्ति,
विघ्नाधीनत्वात् । विशेषेण जगत्सामर्थ्यं हन्तीति विघ्न इति व्युत्पत्ति
बलाद्विघ्नसमं न किंचिदिति संक्षेपार्थः । तद्यथा– "भगवन्तौ विघ्नवि-
नायकौ प्रीयेताम्" इति पुण्याहवाचनवचनत्वात् । स्कान्दे–
" उक्त्वैवमाह्वयत्स्कन्दः शक्रस्तं कालरूपिणम् ।
य इदं माययाऽऽमोह्य कलयत्यखिलं जगत् " ॥ इति ॥
"विघ्नरूपेण घोरेण स कालपुरुषो भुवि ।
गर्जनादखिलाꣲल्लोकान्कम्पयामास वेगवान् " ॥ इति ॥
योगवासिष्ठे भृगुं प्रति कालवाक्यं तद्यथा-
" मा तपः क्षपयाबुद्धे कल्पकालमहानलैः ।
यो न दग्वोऽस्मि मे तस्य किं त्वं शापेन धक्ष्यसि ॥
ब्रह्माण्डावलयो ग्रस्ता निगीर्णा रुद्रकोटयः
भुक्तानि विष्णुवृन्दानि क्क न शक्ता वयं मुने " ॥
इति स्मृतिभिः । विघ्नं महाकालं हरति तस्मै नमः । " अथ ह
आत्मा स सेतुर्विधृतिरेषां लोकानामसंभेदाय एष सर्वेश्वर एष भूताधि-
पतिरेष भूतपाल एष सेतुर्विधारण एषां लोकानामसंभेदाय " इति श्रुतेः ।

लोकानामसंमेभेदाय विघ्नभस्वमर्यादा युक्तलो कत्वात् । शिवसुताय ।
तद्यथा- गणेशेन सृष्टाः शिवादयस्तपश्चक्रुः । तत्राऽऽदौ शिवहृदि ब्रह्मा-
नुभनोवो बभूव, समाधिकिक्रियाधिक्यात् । ततो हृदि गणेशं ददर्श संस्तुत्य
प्रार्थनां चकार । 'त्वं मे पुत्रो भव' त्वपितृतारकत्वात् । 'तदहं माया.-
मोहयहीनश्चरामि ' गणेशजनकत्वादिति । तदेव विनायकसंहितायां
मयूरेशक्षेत्रमाहात्म्ये-
अथ ह
 
PIE

" ध्याने मनसि मे जातः पुत्रत्वं पालय प्रभो ।
मम पुत्र इति ख्यातो लोकेऽस्पि<flag>स्प्रि</flag>न्भगवन्भव " ॥
इत्यादिस्मृतिभ्यः त्रिगुणाता रैब्रह्मविष्णु शिवा रु<flag>ख्यैर</flag>वध्यासुरनाश
 
1
 
-