This page has not been fully proofread.

सभाष्यम् ।
यमेतेनाप्नुवन्तीति " इति श्रुतेः । प्रथ<flag>भ</flag>पतये[^१] वर्णानां ब्राह्मणः प्रथमो
मुख्यस्त्रिवर्णगुरुत्वात् । ब्राह्मणेषु योगी प्रथमो, महावाक्यानुभवयुक्त-
त्वात् । एवं जनानामीश्वराणां ब्राह्मणानां च प्रथभाः श्रेष्ठास्तेषां पति-
स्तदादिपूज्यतत्पूज्यत्वा <flag>त्ते</flag> नमः । लम्बोदराय ते नमोऽस्तु । एकदन्ताय
नमः । विघ्ननाशिने कालात्मकभयहारिणे नमः । अमृतात्मकपदप्रद
त्वात् । तदेव कथ्यते । अभिनन्दनराज्ञेन्द्रभागहीनयज्ञारम्भः कृतः ।
तज्ज्ञात्वा कुपितेनेन्द्रेण कालमाहूय तयज्ञभङ्गायाऽऽज्ञापितः । स काल-
पुरुषस्तद्धर्मं ज्ञात्वा विघ्नासुरो <error>ब</error>भूव । जन्ममृत्युमयं जगत्कालाधीनं,
त्रिलोकभ्रमणत्वात् । ब्रह्मानुभवयुक्तज<error>नंः</error> कालं जित्वाऽमृतमयो भवति
तज्ज्ञानकारणं सत्कर्मसाधनेनान्तःकरणशुद्धिस्तो ब्रह्मानुमवपात्रत्वात्त-
द्धर्मं ज्ञात्वा सत्कर्मनाशनार्थं विघ्नो बभूव । सत्कर्महीनं जगत् काला-
धीनं सदा मलिनान्तःकरणयुक्तत्वात् । ततोऽभिनन्दनं हत्वा यत्र तत्र
दृश्यादृश्यस्वरूपधृक्कालः सत्कर्मखण्डनं चकार । कालाज्ञानभावात्ततो
भ्रान्ता वसिष्ठादयो ब्रह्माणं शरणं ययुः तेनाऽऽज्ञप्ताः पार्श्वपुत्रं गणेशं
तुष्टुवुः, गणेशान्यदेवस्य कालनाशसामर्थ्याभावात् । ततो गणेशेन विघ्ना-
सुरः पराजितः । स शरणं ययौ । तदा स्वाज्ञावशवर्तिनं विघ्नं चकार ।
विघ्नेन प्रार्थितो तिघ्नराजाख्यो बभूव । तदादि गणेशादिपूजनहीनं
यत्सत्कर्म तत्र विघ्नप्रादुर्भावः । एवं नियमं कृत्वा तं स्वसमीपे स्थाप-
यामास । एवं स्कान्दे विनायकमाहात्म्ये मौद्गले च प्रतिपादितत्वात् ।
वेदादिषु विघ्नो भगवानिति कथ्यते, कालमयत्वात् कालाधीनसृष्टि-
-

१ अत्र 'प्रमथपतये' इति इदानीन्तनानां सर्वेषां वैदिकानां पाठः । अयमपि
सावीयानेव। प्रमथ्नातीति प्रमथः । शभोः पारिषदाः प्रमथसंज्ञकाः। तदुक्तं कालि-
कापुराणे एकोनविंत्रिंशाध्याये-
150

ध्यानस्थं परिचर्यन्ति सलिलादिमिरीश्वरम् ।
नानाशस्त्रधराः शंभोगंगार्गणास्तु प्रमथाः स्मृताः ॥
प्रमध्थ्नन्ति च युद्धेषु युध्यमानान्महाबलान् ।
ते वै महाबलाः शूरा: संख्याता वसुकोटयः ॥ १ ॥

इति शिवसुतत्वात् प्रमथसंज्ञकानां शिवगगाणानां पतिः इति यथासंभवं योज-
नीयम् ।