This page has been fully proofread once and needs a second look.

[ २ ]
 
एतपुस्तकपञ्चकमाकलय्य यथामति यथाविज्ञानं संशोधितं मयेदं गणेशाथर्व-
शीर्षभाष्यम् ।<flag> सर्वेष्वप्यादर्शपुस्तकेषु</flag> भाष्यकर्तुर्नामादिकं कुत्रापि नोपलब्धम् ।
अनेनैव भाष्यकृता सर्वसारनिर्णयाख्योऽन्यो ग्रन्थः कृत इति ज्ञायते ( अस्यैव
२१ पृष्ठे २६ <flag>षड्ने</flag> द्रष्टव्यमेतत् ) सोऽस्माभिर्न दृष्टः । अत्र बहूनि प्रमादस्य-
लानीवोपलब्धानि । भाष्यमिदं नातिसमीचीनं तथाऽन्यस्य समीचीनस्थोपलब्यभा-
वात्प्राचनित्वाच्चेदमेव संगृहीतम् । अनतिसमीचीनोऽप्ययं-
 
प्रेम्णा सद्भिर्ग्रन्थः सेव्यः शब्दार्थतः सदोषोऽपि ।
संशोध्य वाऽपि हरिणा सुदाममुनिसतुषपृथक मुष्टिरिव ॥ १॥
 
मुद्रणकर्माणि नियुकानामनवधानेव च यदत्र स्खलितं <flag>तत्</flag> " गच्छवः स्खलनं
न दोषाय " इति न्यायेन क्षन्तुमर्हन्ति सुधिय इति साञ्जलिबन्धं प्रार्थयते -
मन
 
 
n

भवदीयो
वामनशास्त्रिशर्मा ।