This page has been fully proofread once and needs a second look.

गणेशाथर्वशीर्षम् ।
 
" मनसो वृत्तिहीनस्य ब्रह्माकारेण या स्थितिः ।
असंप्रज्ञातनामाऽसौ समाधिरभिधीयते " ॥
 
इति स्मृतेः । ततस्तत्त्वमनुभवसुखयुक्तं निरोधभूमिहीनत्वाञ्चित्तवृत्ति
निरोधात्मकं पञ्चभूमिवर्जितं ब्रह्मभूतप्रकाशकत्वात् त्वंपदतत्पदासिपद
विभागशून्यत्वाच्च । एवं चित्तं जित्वा योगी भवतीति ब्रह्मैकात्मक-
त्वात् । योगिनां शुकवामदेवादीनां वरो गणेशभक्तिपरायणत्वात् प्रत्य-
क्षतत्त्वमसिशरीरभृन्नवधाचित्तप्रवेशकायिकवाचिकमानसिकसांसर्गिक-
सदाबह्मतत्परचेष्टात्मकत्वात् वेदादिहृद्गतज्ञानोद्धारकत्वाच्च । न चैवं
योगी दर्शनस्पर्शनादिजनोद्धारकत्वात् प्रारब्धक्षयब्रह्मैकत्वात् श्रेष्ठतम
इति वाच्यम् । नवधा चित्तशून्यवद्धारकत्वाद्वेदादिहृद्रतनानोपदेशहीन-
त्वात्प्रारब्धक्षये स्वयमेव ब्रह्मैकत्वाज्जनोद्धारकृतत्वाद्योगी श्रेष्ठः । गाणे- शयोगी तु श्रेष्ठतमः, पूर्वोक्तब्रह्मचेष्टापरत्वाज्जनोद्धारकत्वाच्च । न चैवं
शिवविष्ण्वादिध्यानयुक्तोऽपि योगिनां वरः, तत्तद्भक्तिपरायणत्वादिति
वाच्यम् । तेषामथर्वशिरःसु तत्त्वमस्यादिमहावाक्यात्मकशरीराभावा-
द्योगिपदाभावाच्च । तत्र परमहंसा योगिनो गाणेशा भवन्ति, योगि
पदस्य परमहंसपरत्वात् एकगणेशाथर्वशीर्षप्रतिपादनत्वात् अन्यदेवाधि-
कारशून्यत्वाच्च । दण्डहीनाः परमहंसा ब्रह्मभूतास्तद्वन्दनं ब्रह्मशब्दा-
भिधं, नारायणात्मकभावात् । "दण्डग्रहणमात्रेण नरो नारायणो भवेत्"
इति स्मृतेः । गाणेशयोगिवन्दनं गणेशशब्दाभिधं च परमहंसानां वर-
त्वात् ॥ इति ध्यानात्मको नवमः खण्डः ॥ ९ ॥
एवं ध्यानं प्रतिपाद्य स्तुत्यर्थमाह -
नमो व्रातपतये नमो गणपतये नमः प्रमथप-
तये नमस्तेऽस्तु लम्बोदरायैकदन्ताय विघ्नना-
शिने शिवसुताय वरदमूर्तये नमः ॥ १० ॥
नमः इति । व्रातपतये देवादिव्रातानां जीवानां पतित्वात्ते तुभ्यं नमः ।
गणपतये ब्रह्मविष्णुमहेशादिगणानां पतित्वात् ईश्वरत्वात् ते नमः ।
" ब्रह्मविष्ण्वादिगणानामीशभूतमित्याह । तद्गणेश इति । तत्परमित्याह ।